2023-05-24 15:19:57 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२२.
 
दशकुमारचरितम् । [ पूर्वपीठिकायां
 
ततः
तत: परस्मिन्दिवसे वामदेवान्तेवासी तदाश्रमवासी समारा-
PEL
 
34
 

धितदेवकीर्तितिं निर्भत्सितमारमूर्तितिं कुसुमसुकुमारं कुमारमेकमवग-

मय्य नरपतिमवादीत्– "देव, तीर्थयात्राप्रसङ्गेन कावेरीतीरमाग-

तोऽहं विलोलालकं बालकं निजोत्सङ्गतले निधाय रुद्तीं स्थवि-

रामेकां विलोक्यावोचम् – 'स्थविरे, का त्वम् ?, अयमर्भकः कस्य

नयनानन्दकरः ?, कान्तारं किमर्थमागता ?, शोककारणं किम् ?"

इति । सा क॒रयुगेन बाष्पजल॑ल [^१]मुन्मृज्य निजशोकशङ्कृकूत्पाटनक्षममिव
मामवलोक्य शोकहे तुम्वोचत्— 'द्विजात्मज, राजहंसमत्रिणः
सितवर्मणः कनीयानात्मजः सत्यवर्मा तीर्थयात्रा मिभिलाषेण देशमेन-
2004-
मागच्छत् । स कस्मिंश्चिद्ग्रहारे कालीं नाम कस्यचिद्भूसुरस्य
नन्दिनीं विवाह्य तस्या अनपत्यतया गौरीं नाम तद्भगिनीं काञ्चन-
कान्तितिं परिणीय तस्यामेकं जुन्यमूलभूतनयमलभत । काली सासूयमेकदा
धात्र्या मया सह बालमेनमैर्मेकेन मिषेणानीय तटिन्यामेतस्यामक्षि
पत् । क॒
पत् । करेणैकेन बालमुद्धृत्यापरेण [^२]प्लवमाना नदीवेगातस्य -
गतस्य चित्तरो: शाखामवलम्ब्य तत्र शिशुं निधोधाय नदीवेगेनोह्यमाना
केनचित्तरुलग्नेन कालभोगिनामदंशि । मदवलम्बीभूतो भूरुहो-
ऽयम॒स्मिन्देशे ती॒रम॑तीरमगमत् । गरलस्योद्दीपन्तया मयि मृतायामरण्ये
कञ्चन शरण्यो नास्तीति मया शोच्यते इति । ततो विषमविषैष [^३]-

 
तत इति । अन्तेवासी शिष्यः । 'छात्रान्तेवासिनोनौ शिष्ये' इत्यमरः ।

अन्ते वसतीति तथा । समाराधिता देवकीर्तिर्येन तम् । निर्भसिता स्वरूपेण
मारस्य कंदर्पस्य मूर्तिर्येन तम् । कुसुममिव सुकुमारं पेलवम् । अवगमय्य
प्रापय्य । यात्रा गमनम् । प्रसङ्गेन क्रमेण । कावेरी दक्षिणदेशस्था काचिन्नदी ।
विलोलाञ्श्चञ्चला अलका यस्य तम् । उत्सङ्गोऽङ्कः । रुदतीमश्रु मुञ्चतीम् ।

स्थविरामिति गतार्थम् । 'कान्तारं वर्त्म दुर्गमम्' इत्यमर: । युगेन द्वन्द्वेन
बाष्पजलमश्रूणि । निजशोक एव शत्रुःङ्कु: शल्यं तस्योत्पाटनं तत्र क्षमं समर्थम् ।
कनीयान् । 'युवाल्पयोः कन्नन्यतरस्याम् (५।३।६४ ) इति कनादेशः । आत्मजः

पुत्रः । अग्रहारे नृपात्प्रतिग्रहेण लब्धभूमिप्रदेशे ग्रामादौ वा । भूसुरस्य द्विजस्य ।
विवाह्य परिणीय । सासूयमिति क्रियाविशेषणम् । धात्र्युपमाता । मिषेण व्याजेन ।
तटिन्यां नद्याम् । प्लवमाना तरन्ती । भोगी सर्पः । अदंशि । कर्मणि लुङ् । भूरुहो

वृक्षः । गरलस्य विषस्य । उद्दीपनतया प्रबलतरतया । शरण्यो रक्षिता । विषमं
पाठा०-

 
 
[^
]G. 'उत्सृज्य'.
[^
]G. 'अम्भसि प्लवमाना'.
[^
]G. 'विषोल्बणज्वाला'.