2023-05-18 02:09:55 by ambuda-bot
This page has not been fully proofread.
२२.
दशकुमारचरितम् । [ पूर्वपीठिकायां
ततः परस्मिन्दिवसे वामदेवान्तेवासी तदाश्रमवासी समारा-
PEL
34
धितदेवकीर्ति निर्भत्सितमारमूर्ति कुसुमसुकुमारं कुमारमेकमवग-
मय्य नरपतिमवादीत्– "देव, तीर्थयात्राप्रसङ्गेन कावेरीतीरमाग-
तोऽहं विलोलालकं बालकं निजोत्सङ्गतले निधाय रुद्तीं स्थवि-
रामेकां विलोक्यावोचम् – 'स्थविरे, का त्वम् ?, अयमर्भकः कस्य
नयनानन्दकरः ?, कान्तारं किमर्थमागता ?, शोककारणं किम् ?"
इति । सा क॒रयुगेन बाष्पजल॑मुन्मृज्य निजशोकशङ्कृत्पाटनक्षममिव
मामवलोक्य शोकहे तुम्वोचत्— 'द्विजात्मज, राजहंसमत्रिणः
सितवर्मणः कनीयानात्मजः सत्यवर्मा तीर्थयात्रा मिलाषेण देशमेन-
2004-
मागच्छत् । स कस्मिंश्चिद्ग्रहारे कालीं नाम कस्यचिद्भूसुरस्य
नन्दिनीं विवाह्य तस्या अनपत्यतया गौरीं नाम तद्भगिनीं काञ्चन-
कान्ति परिणीय तस्यामेकं जुन्यमूलभूत । काली सासूयमेकदा
धात्र्या मया सह बालमेनमैर्केन मिषेणानीय तटिन्यामेतस्यामक्षि
पत् । क॒रेणैकेन बालमुद्धृत्यापरेण माना नदीवेगातस्य -
चित्तरो: शाखामवलम्ब्य तत्र शिशुं निधोय नदीवेगेनोमाना
केनचित्तरुलग्नेन कालभोगिनामदंश । मदवलम्बीभूतो भूरुहो-
ऽयम॒स्मिन्देशे ती॒रम॑गमत् । गरलस्योद्दीपन्तया मयि मृतायामरण्ये
कञ्चन शरण्यो नास्तीति मया शोच्यते इति । ततो विषमविषै-
तत इति । अन्तेवासी शिष्यः । 'छात्रान्तेवासिनो शिष्ये' इत्यमरः ।
अन्ते वसतीति तथा । समाराधिता देवकीर्तिर्येन तम् । निर्भसिता स्वरूपेण
मारस्य कंदर्पस्य मूर्तिर्येन तम् । कुसुममिव सुकुमारं पेलवम् । अवगमय्य
प्रापय्य । यात्रा गमनम् । प्रसङ्गेन क्रमेण । कावेरी दक्षिणदेशस्था काचिन्नदी ।
विलोलाञ्चञ्चला अलका यस्य तम् । उत्सङ्गोऽङ्कः । रुदतीमश्रु मुञ्चतीम् ।
स्थविरामिति गतार्थम् । 'कान्तारं वर्त्म दुर्गमम्' इत्यमर । युगेन द्वन्द्वेन
बाष्पजलमणि । निजशोक एव शत्रुः शल्यं तस्योत्पाटनं तत्र क्षमं समर्थम् ।
कनीयान् । 'युवाल्पयोः कन्नन्यतरस्याम् (५।३।६४ ) इति कनादेशः । आत्मजः
पुत्रः । अग्रहारे नृपात्प्रतिग्रहेण लब्धभूमिप्रदेशे ग्रामादौ वा । भूसुरस्य द्विजस्य ।
विवाह्य परिणीय । सासूयमिति क्रियाविशेषणम् । धात्र्युपमाता । मिषेण व्याजेन ।
तटिन्यां नद्याम् । लवमाना तरन्ती । भोगी सर्पः । अदंशि । कर्मणि लुङ् । भूरुहो
वृक्षः । गरलस्य विषस्य । उद्दीपनतया प्रबलतरतया । शरण्यो रक्षिता । विषमं
पाठा०-१ 'उत्सृज्य'. २ 'अम्भसि लवमाना'. ३ 'विषोल्बणज्वाला'.