2023-05-18 02:09:55 by ambuda-bot
This page has not been fully proofread.
प्रथमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
२१
अन्येधु: कंचन बालकमुरसि दधती वसुमती वल्लभमभिगता ।
तेन 'कुत्रत्योऽयम्' इति पृष्टा समभाषत - 'राजन्, अतीतायां रात्रौ
-
काचन दिव्यवनिता मत्पुरतः कुमारमेकं संस्थाप्य निद्रामुद्रितां
मां वि॒बोध्य विनीताब्रवीत् – 'देवि, त्वन्मत्रिणो धर्मपालनन्दनस्य
कामपालस्य वल्लभा यक्षकान्ताहं तारावली नाम, नन्दिनी
मणिभद्रस्य । यक्षेश्वरानुमत्या मुदात्मजमेतं भवत्तनूजस्याम्भो-
निधिवलयवेष्टितक्षोणीमण्डलेश्वरस्य भाविनो विशुद्धयशोनिघे राज-
वाहनस्य परिचर्याकरणायानीतवत्यस्मि । त्वमेनं मनोजसंनि-
भम॒भिवर्धय' इति । वि॒िस्मयविकसितनयनया मया सैविनयं सु-
त्कृता स्वक्षी यक्षी साप्य श्यतामयासीत् इति । कामपालस्य
यक्षकन्यासँगमे विस्मयमानमानसो राजहंसो रञ्जितमित्रं सुमित्रं
मन्त्रिणमाहूय तदीय भ्रातृपुत्रमर्थपालं विधाय तस्मै सर्वं वार्तादिकं
व्याख्यायादात् ।
नाम । 'भागरूपनामभ्यो धेयः' ( वा० ३३३० ) इति धेयप्रत्ययः । विधाय
कृत्वा । उदन्तं वार्ताम् । 'वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्' इत्यमरः । व्याख्याय
कथयित्वा । रत्नोद्भवस्य नाशाद्विषादः तन्नन्दनस्य च लाभात्संतोषः । अनु पश्चा-
जातोऽनुजः ॥
-
अन्येधुरिति । अन्येरपरेद्युः । 'सद्यः परुत्परार्यैषमः- ' ( ५ । ३ । २२ ) इति
निपातः । उरसि दधती लालयन्ती । अभ्यस्तत्वानुमभावः । कुत्र भवः कुत्रत्यः ।
'अव्ययात्त्यपू' ( ४ । २ । १०४ ) इति त्यप् । अतीतायां गतायाम् । दिवि भवा दिव्या
सा चासौ वनिता । निद्रया मुद्रितां निमीलितनेत्राम् । विबोध्य प्रबोधं कृत्वा ।
विनीता नम्रा । यक्षेश्वरः कुबेरः । तनूजस्य सूनोः । 'तनुजस्तनूजः' इति द्विरूप-
कोशः । अम्भोनिधिः समुद्रः । स एव वलयः कटकस्तेन वेष्टितं क्षोणीमण्डलं
धरामण्डलं तस्येश्वर ईशिता तस्य । भाविनो नाद्यापि भूतस्य । विशेषेण शुद्धो
यशसो निधिर्यस्य तस्य । परिचर्या शुश्रूषा । मनोजः कामः । संनिभः सदृशः ।
विस्मयेनाश्चर्येण विकसिते नयने नेत्रे यस्यास्तया । सविनयमिति क्रियाविशेषणम् ।
'सविनया' इति पाठे यक्षी विशेषणम् । सत्कृता संमानिता । स्वक्षी शोभननयना ।
अदृश्यतामयासीत् । गताभूदित्यर्थः । यक्षकन्यायाः संगमस्तस्मिन् । विस्मयमानं
मानसं यस्य तथा । रजितानि मित्राणि येन तम् । आहूय । ह्वेञः संप्रसारणम् ।
आकार्य । आनाय्येत्यर्थः ।
पाठा०-१ 'यक्षकन्या'. २ 'सविनया'.
•