2023-05-24 14:41:27 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२०
 
दशकुमारचरितम् ।
 
[ पूर्वपीठिकायां
 
दृश्यत । तं विलोक्य मीभीता सा बालकं निपात्य प्राद्रवत् ।

अहं समीपलतागुल्मके प्रविश्य परीक्षमाणोऽतिष्ठम् । निपतितं

बालकं पल्लवकवलमिवाददति गजपतौ कण्ठीरवो भीमरवो महा-

ग्र
हेण न्यपतत् । भयाकुलेन दन्तावलेन झटिति वियति समुत्पा-

त्यमानो बालको न्यपतत् । चिरायुष्मत्तयांया[^१] स चोन्नततरुशाखास-
मासीनेन वानरेण केनचित्पक्फलबुद्ध्या परिगृह्य फलेतरतया वित-
तस्कन्धमूले निक्षिप्तोऽभूत् । सोऽपि मर्कटः क्वचिद्गात् । बाल-
केन सत्त्वसंपन्नतया सकलक्लेशसहेनाभावि । केसरिणा करिणं
निहत्य कुत्रचिद्गामि । लतागृहान्निर्गतोऽहमपि तेजःपुजं बालकं
शनैरवनीरुहावतार्य वनान्तरे वनितामन्विष्याविलोक्यैनमानीय
गुरवे निवेद्य तन्निदेशेन भवन्निकटमानीतवानस्मि' इति । स-
र्वेषां सुहृदामेकदैवानुकूलदैवाभावेन महदाश्चर्यं बिभ्राणो राजा

रत्नोद्भवः कथमभवत्' इति चिन्तयंस्तन्नन्दनं पुष्पोद्भवनामधेयं

विधाय तदुदन्तं व्याख्याय सुश्रुताय विषादसंतोषावनुभवंस्तदनुज-

तनयं समर्पितवान् ।
 
W
 

 
 
भवो वन्यः । वारणो गजः । 'कुञ्जरो वारणः करी' इत्यमरः । अदृश्यत । कर्मणि
लङ् । 'दृशिर् प्रेक्षणे' इति धातुः । निपात्य प्रच्याव्य । प्राद्रवदधावत् । द्रुतगत्या-
पासरदित्यर्थः । लता व्रततिः । गुल्मकेऽप्रकाण्डे । स्वार्थेऽल्पार्थे वा कः । परीक्ष-
माणः परित ईक्षमाणः । कवलं ग्रासम् । 'ग्रासस्तु कवलः पुमान्' इत्यमरः ।

कण्ठीरवः सिंहः । 'कण्ठीरवो मृगरिपुः' इत्यमरः । भीमो भयंकरो रवो यस्य स
तथा । महाग्रहेण महतावेशेन । चिरायुष्मत्तया दीर्घायुषो भावस्तया । उन्नतस्यो-
च्छ्रितस्य । 'आसन्नोन्नत-' इति पाठे आसन्नः समीपवर्ती । पक्फलबुद्ध्या पक्कं
वं फलं किमप्येतदिति भ्रान्त्या । फलादितरदिति दृष्ट्वा । वितते विस्तृते स्कन्धस्य

प्रकाण्डस्य मूले । मर्कटो वानरः । सत्त्वेन संपन्नस्तस्य भावस्तया । सकलक्लेशसहेन
अखिलक्लेशसहिष्णुना । अभावि । 'भू सत्तायाम्' कर्मणि ढुलुङ् । केसरी मृगेन्द्रः ।

कुत्रचिदनिर्दिष्टे स्थले । लतागृहातू कुञ्जात् । तेजसः पुञ्जं राशिम् । अवन्यां रोहती-
त्यवनीरुहो वृक्षस्तस्मात् । अवतार्य । 'तृतॄ प्लवनतरणयोः' । णिजन्ताल्ल्यप् । अन्य-
द्वनं वनान्तरं तस्मिन् । एनम् । अन्वादेश इदं रूपम् । निदेशेनाज्ञया । एकदै-

वैकस्मिन्नेव काले । सममित्यर्थः । अनुकूलेति । दैवस्य प्रातिकूल्येनेत्यर्थः ।
'
महत् आश्चर्यम्' इति भिन्ने पदे । बिभ्राणः । 'डुभृञ् धारणपोषणयोः' । कर्तरि
शानच् । रत्नोद्भव इति । रत्नोद्भवस्य का गतिः ? । किमभवदित्यर्थः । नामधेयं
पाठा०-

 
[^
]G. 'आसन्नोन्नत'.
 
20