2023-05-24 07:48:28 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

प्रथमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 
धनाढ्यो वैश्यवरः कश्चिदस्ति । तन्नन्दिनीं नयनानन्दकारिणीं

सुवृत्तां नामैतस्माद्वीपादागतो मगधनाथमन्त्रिसंभवो रत्नोद्भवो

नाम रमणीयगुणालयो भ्रान्तभूवलयो मनोहारी व्यवहार्युपयम्य

सुवस्तुसंपदा श्वशुरेण संमानितोऽभूत् । कालक्रमेण नताङ्गी

गर्भिणी जाता । ततः सोदर विलोकनकुतूहलेन रत्नोद्भवः कथंचिच्छ्र-
शुरमनुनीय चपललोचनयानया सह प्रवहणमारुह्य पुष्पपुरम-
भिप्रतस्थे । कल्लोलमालिकाभिहतः पोतः समुद्राम्भस्यमज्जत् ।
[^१]गर्भभरालसां तां ललनां धात्रीभावेन कल्पिताहं कराभ्यामुद्वहन्ती
फलकमेकमधिरुह्य दैवगत्या तीरभूमिमगमम् । सुहृज्जनपरिवृतो
रत्नोद्भवस्तत्र निमग्नो वा केनोपायेन तीरमगमद्वा न जानामि ।
के

क्ले
शस्य परां काष्ठामधिगता सुवृत्तास्मिन्नटवीमध्येऽद्य सुतमसूत ।

प्रसववेदनया विचेतना सा प्रच्छायशीतले तरुतले निवसति ।

विजने ने स्थातुमशक्यतया जनपद्गामिनं मार्गमन्वेष्टुमुधुद्यु क्तया
मया विवशायास्तस्याः समीपे बालकं निक्षिप्य गन्तुमनुचितमिति
कुमारोऽप्यानायि' इति । तस्मिन्नेव क्षणे वन्यो वारणः कश्चिद्-

 
कोशः । अटव्यरण्यम् । आयासेन कष्टेन । मुनिवर ऋषिश्रेष्ठ धनाढ्यो धनस-
मृद्धः । वैश्यवरो वणिक्श्रेष्ठः । नन्दिनीं कन्याम् । नयनयोरानन्दं करोति तथा ।
मन्त्रिसंभवो मन्त्रिणः पुत्रः । रमणीयगुणानामालयो वसतिस्थानम् । भ्रान्तं भुवो
वलयं चक्रं येनेति तथा । मनोहारी मनोज्ञः । अभिराम इत्यर्थः । व्यवहारी वाणि-
ज्यकर्ता । उपयम्य विवाहं कृत्वा । सुवस्तुसंपदा शोभनवस्तुसमृद्ध्या । संमानितः
पूजितः । सत्कृत इति यावत् । नतान्यवनम्राण्यज्ञानि यस्यास्तया । सोदरः समानो -
दर्यः । '
समानोदर्यः । 'समानोदर्यसोदर्य -' इति कोशः । चपले लोचने यस्याः सा तथोक्ता ।
प्रवहणं नावम् । अभिप्रतस्थे । 'समवप्रविभ्यः स्थः' (१।३।२२ ) इत्यात्मनेपदम् ।
कल्लोला महातरजाःङ्गा: । 'महत्सूल्लोलकल्लोलौ' इत्यमरः । तेषां मालिकाः परम्परास्ता-
भिरभिहतस्ताडितः । पोतो नौः । अमज्जत् । 'टुमस्जो शुद्धौ' इति धातोर्लङ् ।
गर्भस्य भरो भारस्तेनालसां जडाम् । ललनां स्त्रियं । धात्रीभावेनोपमातृत्वेन । परां
काष्ठामतिशयम् । असूत । 'घूषूङ् प्राणिगर्भविमोचने' लढ्ङ् । प्रसवकाले या वेदना
तया । विचेतना निःसंज्ञा । नष्टचेष्टेत्यर्थः । प्रच्छायेन शीतले । 'गोस्त्रियोरुपसर्ज-
नस्य' (१९२९४८) इति हस्खःह्रस्व: । विजने निर्जने । जनपदो नीवृत् । देश इति
यावत् । विवशा विह्वला । विकलेत्यर्थः । आनायि । 'णीज्ङ् प्रापणे' इत्यस्य

आङ्पूर्वस्य कर्मणि लुड्ङ् । 'चिण् भावकर्मणोः' ( ३।१।६६ ) इति चिण् । वने
पाठा० -

 
[^
]G. 'गर्भभरात्ताम्'; 'गर्भविलासालसाम्'.
 
। ।
 
१९