2023-08-29 12:52:09 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

सर्वथा भवद्भिर्न निवारणीयः । अत्र स्थितस्त्वयं भगवद्भक्तिमुप-
लप्स्यते । भवन्तश्च पितृसंनिधौ न सुखमवाप्स्यन्ति' इति । महर्षे-
राज्ञामधिगम्य ते पितुर्वानप्रस्थाश्रमाधिगमप्रतिषेधाग्रहमत्यजन् ।
राजवाहनं पुष्पपुरेऽवस्थाप्य तदनुज्ञया सर्वेऽपि परिजनाः स्वानि
स्वानि राज्यानि प्रतिपाल्य स्वेच्छया पित्रोः समीपे गतागतमकुर्वन् । एवमवस्थितास्ते राजवाहनप्रमुखाः सर्वेऽपि कुमारा
राजवाहनाज्ञया सर्वमपि वसुधावलयं न्यायेन परिपालयन्तः पर-स्परमैकमत्येन वर्तमानाः पुरंदरप्रभृतिभिरण्प्यतिदुर्लभानि राज्य-सुखान्यन्वभूवन् ॥
 
इति श्रीदण्डिनः कृतौ दशकुमारचरित उत्तरपीठिका ।
 
इति श्रीमहामहोपाध्यायकविकुलसार्वभौमनिखिलविद्याकुमुदिनी-
शर्वरीश्वरसरस्वतीनिःश्वसितकविदण्डिपण्डितविरचितं दशकुमारचरितं संपूर्णम् ।