2023-08-29 12:51:18 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२८६
 
दशकुमारचरितम्
 
सर्वथा भवद्भिर्न निवारणीयः । अत्र स्थितस्त्वयं भगवद्भक्तिमुप-

लप्स्यते । भवन्तश्च पितृसंनिधौ न सुखमवाप्स्यन्ति' इति । महर्षे-

राज्ञामधिगम्य ते पितुर्वानप्रस्थाश्रमाधिगमप्रतिषेधाग्रहमत्यजन् ।

राजवाहनं पुष्पपुरेऽवस्थाप्य तदनुज्ञया सर्वेऽपि परिजनाः स्वानि

स्वानि राज्यानि प्रतिपाल्य स्वेच्छया पित्रोः समीपे गतागत-
मकुर्वन् । एवमवस्थितास्ते राजवाहनप्रमुखाः सर्वेऽपि कुमारा

राजवाहनाज्ञया सर्वमपि वसुधावलयं न्यायेन परिपालयन्तः पर-
स्परमैकमत्येन वर्तमानाः पुरंदरप्रभृतिभिरण्यतिदुर्लभानि राज्य-
सुखान्यन्वभूवन् ॥
 

 
इति श्रीदण्डिनः कृतौ दशकुमारचरित उत्तरपीठिका ।
 

 
इति श्रीमहामहोपाध्यायकविकुलसार्वभौमनि खिलविद्याकुमुदिनी-

शर्वरीश्वरसरस्वतीनिःश्वसितकविदण्डिपण्डित-
विरचितं दशकुमारचरितं संपूर्णम् ।