This page has not been fully proofread.

उत्तरपीठिका ।
 
२८५
 
हंसस्य देव्या वसुमत्याञ्च पादान्नमस्यामः । एवं निश्चित्य
स्वस्वभार्यासंयुताः परिमितेन सैन्येन मालवेशं प्रति प्रस्थिताः ।
प्राप्य चोज्जयिनीं तदैव सहायभूतैस्तैः कुमारैः परिमितेन राजवाह-
नेनातिबलवानपि मालवेशो मानसारः क्षणेन पराजिग्ये निहतश्च ।
ततस्तद्दुहितरमवन्तिसुन्दरीं समादाय चण्डवर्मणा तन्मत्रिणा
पूर्व कारागृहे रक्षितं पुष्पोद्भवं कुमारं सकुटुम्बं तत उन्मोचितं
सह नीत्वा मालवेन्द्रराज्यं वशीकृत्य तद्रक्षणाय कांश्चित्सैन्यस-
हितान्मत्रिणो नियुज्यावशिष्ट परिमित सैन्यसहितास्ते कुमाराः
पुष्पपुरं समेत्य राजवाहनं पुरस्कृत्य तस्य राजहंसस्य मातुर्वसुम-
.त्याश्च चरणानभिवन्दितवन्तः । तौ च पुत्रसमागमं प्राप्य परमा-
नन्दमधिगतौ । ततो राज्ञो वसुमत्याच देव्याः समक्षं वामदेवो
राजवाहनप्रमुखानां दशानामपि कुमाराणामभिलाष विज्ञाय
तानाज्ञापयत् – 'भवन्तः सर्वेऽप्येकवारं गत्वा स्वानि स्वानि
राज्यानि न्यायेन परिपालयन्तु । पुनर्यदेच्छा भवति तदा पित्रोच-
रणाभिवन्दनायागन्तव्यम्' इति । ततस्ते सर्वेऽपि कुमारास्तन्मुनि-
वचनं शिरस्याधाय तं प्रणम्य पितरौ च, गत्वा दिग्विजयं विधाय
प्रत्यागमनान्तं स्वस्ववृत्तं पृथक्पृथड्युनिसमक्षं न्यवेदयन् । पितरौ
च कुमाराणां निजपराक्रमावबोधकान्यतिदुर्घटानि चरितान्याकर्ण्य
परमानन्दमाप्नुताम् । ततो राजा मुनिं सविनयं व्यजिज्ञपत्-
भगवन्, तव प्रसादादस्माभिर्मनुजमनोरथाधिकमवाङ्मनसगोचरं
सुखमधिगतम् । अतः परं मम स्वामिचरणसंनिधौ वानप्रस्थाश्रमम-
धिगत्यात्मसाधनमेव विधातुमुचितम् । अतः पुष्पपुरराज्ये मान-
सारराज्ये च राजवाहनमभिषिच्यावशिष्टानि राज्यानि नवभ्यः
कुमारेभ्यो यथोदितं संप्रदाय ते कुमारा राजवाहनाज्ञाविधायि-
नस्तदैकमत्या वर्तमानाश्चतुरुदधिमेखलां वसुंधरां समुद्धृत्य कण्ट-
कानुपभुञ्जन्ति तथा विधेयं स्वामिना' इति । तेषां तत्पितुर्वानप्र-
स्थाश्रमग्रहणोपक्रमनिषेषे भूयांसमाग्रहं विलोक्य मुनिस्तानव-
दुत् – 'भोः कुमारकाः, अयं युष्मज्जनक एतद्वयःसमुचिते पथि
वर्तमान कायकेशं विनैव मदाश्रमस्थो वानप्रस्थाश्रमाश्रयणं