This page has not been fully proofread.

२८४
 
दशकुमारचरितम् ।
 
राजवाहनं शिवपूजार्थं निशि शिवालये स्थितं प्रातरनुपलभ्याव-
शिष्टाः सर्वेऽपि कुमारा: 'सहैव राजवाहनेन राजहंस प्रणस्यामो
न चेप्राणांस्त्यक्ष्यामः' इति प्रतिज्ञाय सैन्यं परावर्य राजवाहन-
मन्वेष्टुं पृथक्प्रस्थिताः । एतं भवद्वृत्तान्तं ततः प्रत्यावृत्तानां
सैनिकानां मुखादाकर्ण्यासह्यदुःखोदन्वति मग्नमनसावुभावहं
युष्मज्जननी च 'वामदेवाश्रमं गत्वैतवृत्तान्तं तद्विदितं विधाय
प्राणपरित्यागं कुर्वः' इति निश्चित्य तदाश्रममुपगतौ
 
मुनिं
 
www.in
 
,
 
प्रणम्य यावत्स्थितौ तावदेव तेन त्रिकालवेदिना मुनिना विदितमे-
वास्मन्मनीषितम् । निश्चयमवबुध्य प्रावोचि – राजन्, प्रथम-
मेवैतत्सर्वं युष्मन्मनीषितं विज्ञानबलादज्ञायि । यदेते त्वत्कुमारा
राजवाहननिमित्ते कियन्तमनेहसमापदमासाद्य भाग्योदयादसा-
धारणेन विक्रमेण विहितदिग्विजयाः प्रभूतानि राज्यान्युपलभ्य
षोडशाब्दान्ते विजयिनं राजवाहनं पुरस्कृत्य प्रत्येत्य तव
वसुमत्याच पादानभिवाद्य भवदाज्ञाविधायिनो भविष्यन्ति ।
अतस्तन्निमित्तं किमपि साहसं न विधेयम् इति । तदाकर्ण्य
तत्प्रत्ययाद्धैर्यमवलम्ब्याद्यप्रभृत्यहं देवी च प्राणानधारयाव । इदा-
नीमासन्नवर्तिन्यवधौ वामदेवाश्रमं गत्वा विज्ञप्तिः कृता-
'स्वामिन्, त्वदुक्तावधिः पूर्णप्रायो भवति । तत्प्रवृत्तिस्त्वयाद्यापि
विज्ञायते । इति श्रुत्वा मुनिरवदत् - 'राजन्, राजवाहनप्रमु-
खाः सर्वेऽपि कुमारा अनेकान्दुर्जया शत्रून्विजित्य दिग्विजयं
विधाय भूवलयं वशीकृत्य चम्पायामेकत्र स्थिताः । तवाज्ञापत्र-
मादाय तदानयनाय प्रेष्यन्तां शीघ्रमेव सेवकाः' । इति मुनिवच-
नमाकर्ण्य भवदाकारणायाज्ञापत्रं प्रेषितमस्ति । अतः परं चेत्क्षण-
मपि यूयं विलम्बं विधास्यथ ततो मां वसुमतीं च मातरं कथाव-
शेषावेव श्रोष्यथेति ज्ञात्वा पानीयमपि पथि भूत्वा पेयम्' इति ।
एवं पितुराज्ञापत्रं मूर्ध्नि विधृत्य गच्छेमेति निश्चयं चक्रुः । अथ
वशीकृतराज्यरक्षापर्याप्तानि सैन्यानि समर्थतरान्पुरुषानाप्तास्थाने
स्थाने नियुज्य कियता सैन्येन मार्गरक्षां विधाय पूर्ववैरिणं माल -
देशं मानसा पराजित्य तदपि राज्यं वशीकृत्य पुष्पपुरे राज्ञो राज-