2023-08-29 13:32:00 by Lakshmainarayana achar

This page has been fully proofread twice.

ध्यति तावन्मया न कुत्राप्येकत्रावस्थातुं शक्यम् । अत इयं
मद्भार्या त्वद्भगिनी मञ्जुवादिनी कियन्त्यहानि युष्मदन्तिकमेव
तिष्ठतु । अहं च यावदिष्टजनोपलम्भं कियन्तमप्यनेहसं भुवं
विभ्रम्य तमासाद्य पुनरत्र समेष्यामि इत्याकर्ण्य मात्रानुमतेन
राज्ञाहमगादि — 'यदेतदस्माकमेतद्राज्योपलम्भलक्षणस्यैता- वतोऽभ्युदयस्यासाधारणो हेतुर्भवानेव । भवन्तं विना क्षणमप्यस्माभिरियं राज्यधूर्न निर्वाह्या । अतः किमेवं वक्ति भवान्' । इत्याकर्ण्य मया प्रत्यवादि – 'युष्माभिरयं चिन्तालवोऽपि न चित्ते चिन्तनीयः । युष्मद्गृहे यः सचिवरत्नमार्यकेतुरस्ति स ईदृग्विधानामनेकेषां राज्यानां धुरमृद्वोढुं शक्तः । ततस्तं तत्र नियुज्याहं गमिष्यामि' इत्यादिवचनसंदोहै: प्रलोभितोऽपि सजननीको नृपोऽनेकैराग्रहैर्मां कियन्तमपि कालं प्रयाणोपक्रमान्न्यवर्तयत् । उत्कलाधिपतेः प्रचण्डवर्मणो राज्यं मह्यं प्रादात् । अहं च तद्राज्यमात्मसात्कृत्वा राजानमामन्त्र्य यावत्वदन्वेषणाय प्रयाणोपक्रमं करोमि तावदेवाङ्गनाथेन सिंहवर्मणा स्वसाहाय्यायाकारितोऽत्र समागतः
पूर्वपुण्यपरिपाकात्स्वामिना समगंसि ।
ततस्ते तत्र संगता अपहारवर्मोपहारवर्मार्थपालप्रमतिमित्रगुप्त-
मन्त्रगुप्तविश्रुताः कुमाराः पाटलिपुरे यौवराज्यमुपभुञ्जानं समाकारणे पूर्वकृतसंकेतं वामलोचनया भार्यया सह कुमारं सोमदत्तं सेवकैरानाय्य सरा जवाहनाः संभूयावस्थिता मिथः सप्रमोदसंवलिताः कथा यावद्विदधति तावत्पुष्पपुराद्राज्ञो राजहंसस्याज्ञापत्रमादाय समागता राजपुरुषाः प्रणम्य राजवाहनं व्यजिज्ञपन्–स्वामिन्, एतज्जनकस्य राजहंसस्याज्ञापत्रं गृह्यताम्' इत्याकर्ण्य समुत्थाय भूयोभूयः सादरं प्रणम्य सदसि तदाज्ञापत्रमग्रहीत् । शिरसि चाधाय तत उत्तार्योत्कील्य राजा राजवाहनः सर्वेषां शृण्वतामेवावाचयत् – 'स्वस्ति श्रीः पुष्पपुरराजधान्याः श्रीराजहंसभूपतिचम्पानगरीमधिवसतो
राजवाहनप्रमुखान्कुमारानाशास्याज्ञापत्रं प्रेषयति । यथा यूयमितो मामामन्त्र्य प्रणम्य प्रस्थिताः पथि कस्मि-
चिद्वनोद्देश उपशिवालयं स्कन्धावारमवस्थाप्य स्थिताः । तत्र