This page has not been fully proofread.

उत्तरपीठिका ।
 
२८३
 
ध्यति तावन्मया न कुत्राप्येकत्रावस्थातुं शक्यम् । अत इयं
मार्या त्वद्भगिनी मञ्जवादिनी कियन्त्यहानि युष्मदन्तिकमेव
तिष्ठतु । अहं च यावदिष्टजनोपलम्भं कियन्तमप्यनेहसं भुवं
विभ्रम्य तमासाद्य पुनरत्र समेष्यामि इत्याकर्ण्य मात्रानुमतेन
राज्ञाहमगादि — 'यदेतदस्माकमेतद्राज्योपलम्भलक्षणस्यैतावतोऽभ्यु -
दयस्यासाधारणो हेतुर्भवानेव । भवन्तं विना क्षणमप्यस्माभिरियं
राज्यधूर्न निर्वाह्या । अतः किमेवं वक्ति भवान्' । इत्याकर्ण्य मया
प्रत्यवादि – 'युष्माभिरयं चिन्तालवोऽपि न चित्ते चिन्तनीयः ।
युष्मद्गृहे यः सचिवरत्नमार्यकेतुरस्ति स ईदृग्विधानामनेकेषां
राज्यानां धुरमृद्रोढुं शक्तः । ततस्तं तत्र नियुज्याहं गमिष्यामि
इत्यादिवचनसंदोहै: प्रलोभितोऽपि सजननीको नृपोऽनेकैराग्र-
हैर्मा कियन्तमपि कालं प्रयाणोपक्रमान्यवर्तयत् । उत्कलाधिपतेः
प्रचण्डवर्मणो राज्यं मह्यं प्रादात् । अहं च तद्राज्यमात्मसा-
त्कृत्वा राजानमामत्र्य यावत्वदन्वेषणाय प्रयाणोपक्रमं करोमि
तावदेवाङ्गनाथेन सिंहवर्मणा स्वसाहाय्यायाकारितोऽत्र समागतः
पूर्वपुण्यपरिपाकात्स्वामिना समगंसि ।
 
ततस्ते तत्र संगता अपहारवर्मोपहारवर्मार्थपालप्रमति मित्रगुप्त-
मन्त्रगुप्तविश्रुताः कुमाराः पाटलिपुरे यौवराज्यमुपभुञ्जानं समाकारणे
पूर्वकृतसंकेतं वामलोचनया भार्यया सह कुमारं सोमदत्तं सेव-
कैरानाय्य सरा जवाहनाः संभूयावस्थिता मिथः सप्रमोदसंवलिताः
कथा यावद्विद्धति तावत्पुष्पपुराद्राज्ञो राजहंसस्याज्ञापत्रमादाय
समागता राजपुरुषाः प्रणम्य राजवाहनं व्यजिज्ञपन्–स्वामिन्,
एतज्जनकस्य राजहंसस्याज्ञापत्रं गृह्यताम्' इत्याकर्ण्य समुत्थाय
भूयोभूयः सादरं प्रणम्य सदसि तदाज्ञापत्रमग्रहीत् । शिरसि
चाधाय तत उत्तार्योत्कील्य राजा राजवाहनः सर्वेषां शृण्वतामेवा-
वाचयत् – 'स्वस्ति श्रीः पुष्पपुरराजधान्याः श्रीराजहंसभूपति-
चम्पानगरीमधिवसतो
राजवाहनप्रमुखान्कुमारानाञ्चास्याज्ञापत्रं
प्रेषयति । यथा यूयमितो मामामत्र्य प्रणम्य प्रस्थिताः पथि कस्मि-
चिद्वनोहेश उपशिवालयं स्कन्धावारमवस्थाप्य स्थिताः । तत्र
 
NE
 
-