2023-08-28 14:39:42 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
दशकुमारचरितम् ।
-
भिन्नमनस आसन् । विशेषतश्च मदीयमिति वचनं श्रुत्वा ते सर्वेऽपि
मद्र
मद्वशे समभवन् । एतं सर्वमपि वृत्तान्तमवबुध्याश्मकेशेन व्यचि-
न्ति – 'यद्राजसूनो
न्ति । मदीयश्च बाह्य आभ्यन्तरो भृत्यवर्गो भिन्नमना इव लक्ष्यते ।
एवं यद्यहं क्षमामवलम्
वतोऽपरिमितस्यास्मत्सैन्यस्योपर्येक एवाभ्यागच्छति तत्र भवा-
नीवर एवासाधारणं कारणं नान्यत्' इति निश्चित्यालेख्यलिखिते-
वावस्थिता । ततो मयाभिगम्य संगराय समाहूतो वसन्त-
भानुः समेत्य मामसिप्रहारेण दृढमभ्यहनत् । अहं च शिक्षावि-
शेषविफलिततसिप्रहारः प्रतिप्रहारेण तं प्रहत्यावकृत्तमश्मके-
न्द्रशिरोऽवनौ विनिपात्य तत्सैनिकानवदम् – 'अतःपरमपि ये
युयुत्सवो भवन्ति ते समेत्य मया युध्यन्ताम् । न चेद्राजतनयच-
रणप्रणामं विधाय तदीयाः सन्तः स्वस्ववृत्त्युपभोगपूर्वकं निजान्नि-
जानधिकारान्निःशङ्कं परिपालयन्तः सुखेनावतिष्ठन्तु' इति । मद्
चनश्रवणानन्तरं सर्वेऽप्यश्मकेन्द्रसेवकाः स्वस्ववाहनात्सहसावतीर्य
राजसूनुमानम्य तद्वशवर्तिनः समभवन् । ततोऽहं तदश्मकेन्द्रराज्यं
राजसूनुसाद्विधाय तद्रक्षणार्थं मौलान्स्वानधिकारिणो नियुज्यात्मी-
भूतेनाश्म
राजतनयं भास्करवर्माणमभिषिच्य पित्र्ये पदे न्यवेशयम् ।
एकदा च मात्रा वसुमत्या सहावस्थितं तं राजानं व्यजिज्ञ-
पम् – 'मयैकस्य कार्यस्यारम्भश्चिकीर्षितोऽस्ति । स यावन्न सि-
-