2023-05-18 02:11:07 by ambuda-bot
This page has not been fully proofread.
२८२
दशकुमारचरितम् ।
-
कर्ण्य तेऽश्मकेन्द्रान्तरङ्गभृत्या राजसूनोर्भवानीवरं विदित्वा पूर्वमेव
भिन्नमनस आसन् । विशेषतच मदीयमिति वचनं श्रुत्वा ते सर्वेऽपि
मद्रशे समभवन् । एतं सर्वमपि वृत्तान्तमवबुध्याश्मकेशेन व्यचि-
न्ति – 'यद्राजसूनोमलाः प्रजास्ताः सर्वा अप्येनमेव प्रभुमभिलव-
न्ति । मदीयश्च बाह्य आभ्यन्तरो भृत्यवर्गो भिन्नमना इव लक्ष्यते ।
एवं यद्यहं क्षमामवलम्व्य गृह एव स्थास्यामि तत उत्पन्नो-
पजापं स्वराज्यमपि परित्रातुं न शक्ष्यामि । अतो यावता भिन्न-
चित्तेन मदद्वबोधकं प्रकटयता महूलेन सह मिथोवचनं न
संजातं तावतैव तेन साकं विग्रहं रचयामि । इत्येवं विहिते
सोऽवश्यं मदमे क्षणमवस्थास्यति' इति निश्चित्यान्यायेन परराज्यात्र-
मणपाकप्रेरितः ससैन्यो मृत्युमुखमिवास्मत्सैन्यमभ्ययात् । तम-
भ्यायान्तं विदित्वा राजपुत्रः पुरोऽभवत् । अतोऽश्मकेन्द्रमेव तुर-
गाधिरूढो यान्तमभ्यसरम् । तावत्सर्वा एव तत्सेना- 'यदय मेता-
वतोऽपरिमितस्यास्मत्सैन्यस्योपर्येक एवाभ्यागच्छति तत्र भवा-
नीवर एवासाधारणं कारणं नान्यत्' इति निश्चित्यालेख्यलिखिते-
वावस्थिता । ततो मयाभिगम्य संगराय समाहूतो वसन्त-
भानुः समेत्य मामसिप्रहारेण दृढमभ्यहनत् । अहं च शिक्षावि-
शेषविफलिततसिप्रहारः प्रतिप्रहारेण तं प्रहत्यावकृत्तमश्मके-
न्द्रशिरोऽवनौ विनिपात्य तत्सैनिकानवदम् – 'अतःपरमपि ये
युयुत्सवो भवन्ति ते समेत्य मया युध्यन्ताम् । न चेद्राजतनयच-
रणप्रणामं विधाय तदीयाः सन्तः स्वस्ववृत्त्युपभोगपूर्वकं निजान्नि-
जानधिकारान्निःशङ्कं परिपालयन्तः सुखेनावतिष्ठन्तु' इति । मद्र-
चनश्रवणानन्तरं सर्वेऽप्यश्मकेन्द्रसेवकाः स्वस्ववाहनात्सहसावतीर्य
राजसूनुमानम्य तद्वशवर्तिनः समभवन् । ततोऽहं तदश्मकेन्द्रराज्यं
राजसूनुसाद्विधाय तद्रक्षणार्थं मौलान्स्वानधिकारिणो नियुज्यात्मी-
भूतेनाश्म केन्द्र सैन्येन च साकं विदर्भानभ्येत्य राजधान्यां तं
राजतनयं भास्करवर्माणमभिषिच्य पित्र्ये पदे न्यवेशयम् ।
एकदा च मात्रा वसुमत्या सहावस्थितं तं राजानं व्यजिज्ञ-
पम् – 'मयैकस्य कार्यस्यारम्भश्चिकीतोऽस्ति । स यावन्न सि-