This page has not been fully proofread.

दशकुमारचरिते
 
उत्तरपीठिका ।
 
व्यचिन्तयं च – 'सर्वोऽप्यतिशूरः सेवकवर्गो मयि तथानुरक्तो
यथाज्ञया जीवितमपि तृणाय मन्यते । राज्यद्वितयसैन्यसामग्र्या च
नाहमश्मकेशाद्वसन्तभानोर्न्यूनो नीत्याविष्टश्च । अतो वसन्तभानुं
पराजित्य विदर्भाधिपतेरनन्तवर्मणस्तनयं भास्करवर्माणं पित्र्ये
पदे स्थापयितुमलमस्मि । 'अयं च राजसूनुर्भवान्या पुत्रत्वेन
परिकल्पितः । अहं चास्य साहाय्ये नियुक्तः' इति सर्वत्र किंव-
दन्ती संजातास्ति । अद्यापि चैतन्मत्कपटकृत्यं न केनापि विदि-
तम् । अत्रस्थाश्चास्मिन्भास्करवर्मणि राजतनये – 'अयमस्मत्स्खा -
मिनोऽनन्तवर्मणः पुत्रो भवान्याः प्रसादा देतद्राज्यमवाप्स्यति'
इति बद्धाशा वर्तन्ते । अश्मकेशसैन्यं च राजसूनोर्भवानीसा-
हाय्यं विदित्वा 'दैव्याः शक्तेः पुरो न बलवती मानवी शक्ति: '
इत्यस्माभिर्विग्रहे चलचित्तमिवोपलक्ष्यते । अत्रत्याञ्च मौलाः
प्रकृतयः प्रथममेव राजसुताभ्युदयाभिलाषिण्य इदानीं च पुनर्मया
दानमानाद्यावर्जनेन विश्वासिता विशेषेण राजपुत्रमेवाभिकाङ्क्षन्ति ।
अश्मकेन्द्रान्तरङ्गाश्च भृत्या मदीयैर्विश्वास्यतमैः पुरुषैः प्रभूतां प्रीति-
मुत्पाद्य मदाज्ञया रहसीत्युपजप्ताः – 'यूयमस्मन्मित्राणि, अतो-
ऽस्माकं शुभोदकं वचो वाच्यमेव । अत्र भवान्या राजसूनोः साहा-
स्यकाय विश्रुतं विश्रुतं वियुज्य तद्धस्तेनाश्म केन्द्रस्य वसन्तभानोस्त-
तपक्षे स्थित्वा ये चानेन सह योत्स्यन्ति तेषामयमप्यन्तकातिथिभव-
नम् । यावदश्मकेन्द्रेण स जन्यवृत्तिर्न जातस्तावदेनमनन्तवर्मतनयं
भास्करवर्माणमनुसरिष्यथ । स वीतभयो भूयसीं प्रवृत्तिमासाद्य
सपरिजन: सुखेन निवत्स्यति न चेद्भवानीत्रिशूलवश्यो भविष्यति ।
भवान्या च ममेत्याज्ञप्तमस्ति यदेकवारं सर्वेषां कथय । अतोऽस्माकं
युष्माभिः सह मैत्रीमवबुध्यास्मन्मुखेन सर्वेभ्यो वार्तम्' । इत्या-
पाठा०-१ 'वार्तामाकर्ण्य', 'गदितम् । इति'.