2023-08-29 13:32:25 by Lakshmainarayana achar

This page has been fully proofread twice.

समाहरेयमर्थान्, अर्थमूला हि दण्डविशिष्टकर्मारम्भा न चान्यदस्ति
पापिष्ठं तत्र दौर्बल्यात्, इत्याकलय्य योगानन्वतिष्ठम् ॥
 
इति श्रीदण्डिनः कृतौ दशकुमारचरिते विश्रुतचरितं नामाष्टम
उच्छ्वासः ।
 
पदचन्द्रिका ।
 
रिपून् । अलुब्धतां लुब्धत्वाभावम् । अभिख्यापयन्प्रकटीकुर्वन् । नास्तिकान्नास्तिक्ययुक्तान् । चातुर्वर्ण्यं चतुर्णां वर्णानां ब्राह्मणादीनां समाहारश्चातुर्वर्ण्यम् । अर्थमूला अर्थाधीनाः । दौर्बल्यादुर्बलस्य भावस्तथा । आकलय्य । मनसि कृत्वेत्यर्थः । योगान्विविधोपायान् । 'योगो युक्तौ च संगत्यां कार्मणालभ्यलाभयोः ।
देहदार्ढ्ये प्रयोगे च विष्कम्भादौ तथात्मनि' ॥ 'उपाये भेषजे विद्धि (?) -र्दृष्टिसंनहने धने । विश्रब्धघातिनि ध्याने युक्तिन्याये च योजने ॥" इति महीपः ॥
 
इति श्रीसकलशास्त्रार्थसार्थकीकृतशेमुषीविलासरससान्द्रप्रव-
र्तितासंख्ययशःसमुद्रविद्वत्परिषच्चन्द्रयतीन्द्रसर्वविद्यानिधानश्री-
मत्कवीन्द्राचार्यसरस्वतीकृतायां दशकुमारव्याख्यायां पदचन्द्रि-
काभिधायां विश्रुतचरितं नामाष्टम उच्छ्वास: ॥
 
भूषणा ।
 
लये । भग्नपार्श्व तिर्यक्पार्श्वम् । प्रकृतीर्लोकान् ॥
 
इति श्रीत्रिलोकचन्द्रात्मजकृष्णरामसूनुशिवरामकृतौ दशकुमारभूषणायामष्टम उच्छ्वासः ॥
 
लघुदीपिका ।
 
भोगयोः' । कोशलाभिजनत्वात्कोशलवंशजवात् ॥
 
इति श्रीदशकुमारचरितविवरणेऽष्टम उच्छ्वासः ॥