2023-08-28 14:11:51 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
 
२७९
 
इति स यद्वदिष्यति तदस्मि बोध्यः' इति । सोऽन्यदैवं मामा-

वेदयत् – 'मुहुरुपास्य प्राभृतैः, प्रवर्त्य चित्राः कथा:, संवाह्य

पाणिपादम्, अतिविस्रम्भदत्तक्षणं तमप्राक्षं त्वदुपदिष्टेन नयेन ।

सोऽप्येवमकथयत् – 'भद्र, मैवं वादीः । अभिजनस्य शुद्धि-

दर्शनम्, असाधारणं बुद्धिनैपुणम्, अतिमानुषं प्राणलम्, अप-

रिमाणमौदार्यम्, अत्याश्चर्यमन्त्रकौशलम्, अनल्पं शिल्पज्ञानम्,

अनुग्रहार्द्रं चेतः, तेजश्चाप्य विषह्यमभ्यमित्रीणम्, इत्यस्मिन्नेव

संनिपातिनो गुणाः येऽन्यत्रैकैकशोऽपि दुर्लभाः । द्विषतामेष

चिरबिल्वद्रुमः प्रारह्वाणां तु चन्दनतरुः, तमुद्धृत्य नीतिज्ञंमन्यम-

श्
मकमिमं च राजपुत्रमनेन पित्र्ये पदे प्रतिष्ठितमेव विद्धि । नात्र

संशयः कार्यः' इति । तच्चापि श्रुत्वा भूयो भूयञ्श्चोपधाभिर्विशोध्य

तं मे मतिसहायमकरवम् । तत्सखश्च सत्यशौचयुक्तानमात्यान्वि-

विधव्यञ्जनांश्च गूढपुरुषानुदपादयम् । तेभ्यञ्श्चोपलभ्य लुब्धसमृ-

द्धमत्युत्सित्क्तमविधेयप्रायं च प्रकृतिमण्डलमलुब्धता- मभिख्यापयन्,
धार्मिकत्वमुद्भावयन्, नास्तिकान्कदर्थयन्, कण्टकान्विशोधयन्,
अमित्रोपधीरपन्घ्नन्, चातुर्वर्ण्यं च स्वधर्मकर्मसु स्थापयन्, अभि-
J
 

 
पदचन्द्रिका ।
 

 
त्यज्येतेत्यर्थः । प्ग्रस्येत वेति भक्षयिष्यति वा । उपास्य सेविलात्वा । प्रामृभृतैरुपायनैः ।
प्रत्यग्रचित्ता नवीनचित्ताः । संवाह्य । 'संवाहनं पुरस्कारः' इति । विसम्भो वि-
श्वासः । भद्र कल्याणेति संबोधनम् । अभिजनस्य कुलस्य । असाधारणम् । महदि-
त्यर्थः । अतिमानुषं मानुषमतिक्रम्य वर्तत इति । अपरिमाणं परिमाणरहितम् ।

औदार्यमुदारस्य भावस्तथा । अस्त्रकौशलमस्त्रकुशलता। शिल्पज्ञानं रचनाज्ञानम् ।
अविषह्यं सोढुमशक्यम् । अभ्यमित्रीणम् अमित्रान् शत्रूनभिमुखमलं गच्छतीति
तथा । 'अभ्यमित्राच्छ च' (५१७ ) इति चकारात्खः । संनिपातिन एकत्राव-
स्थिताः । चिरबिल्वद्रुमो विषद्रुमः । प्रहाह्वाणामनुरागवताम् । पित्र्यं पितुरिदम् ।
संशयः संदेहः । भूयोभूयो वारंवारम् । उपधाभिः 'उपधा
धर्माद्यैर्यत्परीक्षणम्'
इत्यमरः । तत्सखः स एव सखेति तत्सखः । 'राजाहः सखिभ्यष्टच्' (५/९१ )
इति टच् । सत्यं सत्यप्रतिज्ञानम् । शौचं शुद्धिः । गूढपुरुषान्गुप्तसेवकान् । कण्टकान्
 

 
भूषणा ।
 

 
समृद्धिः । 'स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्' । त्रिगुणा वाङ्मनः कायिकाः ।

षड्गुणाः संध्यादयः । अनेकाधिकरणत्वादनेकप्रकारत्वात् । 'प्रक्रिया चाधिकारः