This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
 
२७९
 
इति स यद्वदिष्यति तदस्मि बोध्यः' इति । सोऽन्यदैवं मामा-
वेदयत् – 'मुहुरुपास्य प्राभृतैः, प्रवर्त्य चित्राः कथा:, संवाह्य
पाणिपादम्, अतिविस्रम्भदत्तक्षणं तमप्राक्षं त्वदुपदिष्टेन नयेन ।
सोऽप्येवमकथयत् – 'भद्र, मैवं वादीः । अभिजनस्य शुद्धि-
दर्शनम्, असाधारणं बुद्धिनैपुणम्, अतिमानुषं प्राणवलम्, अप-
रिमाणमौदार्यम्, अत्याश्चर्यमन्त्रकौशलम्, अनल्पं शिल्पज्ञानम्,
अनुग्रहार्द्र चेतः, तेजश्चाप्य विषयमभ्यमित्रीणम्, इत्यस्मिन्नेव
संनिपातिनो गुणाः येऽन्यत्रैकैकशोऽपि दुर्लभाः । द्विषतामेष
चिरबिल्वद्रुमः प्राणां तु चन्दनतरुः, तमुद्धृय नीतिज्ञंमन्यम-
इमकमिमं च राजपुत्रमनेन पित्र्ये पदे प्रतिष्ठितमेव विद्धि । नात्र
संशयः कार्यः' इति । तच्चापि श्रुत्वा भूयो भूयञ्चोपधाभिर्विशोध्य
तं मे मतिसहायमकरवम् । तत्सखश्च सत्यशौचयुक्तानमात्यान्वि-
विधव्यञ्जनांश्च गूढपुरुषानुदपादयम् । तेभ्यञ्चोपलभ्य लुब्धसमृ-
द्धमत्युत्सित्क्तमविधेयप्रायं च प्रकृतिमण्डलमलुब्धतामभिख्यापयन्,
धार्मिकत्वमुद्भावयन्, नास्तिकान्कदर्थयन, कण्टकान्विशोधयन्,
अमित्रोपधीरपन्नन्, चातुर्वर्ण्य च स्वधर्मकर्मसु स्थापयन, अभि-
J
 
पदचन्द्रिका ।
 
त्यज्येतेत्यर्थः । प्रस्येत वेति भक्षयिष्यति वा । उपास्य सेविला । प्रामृतैरुपायनैः ।
प्रत्यग्रचित्ता नवीनचित्ताः । संवाह्य । 'संवाहनं पुरस्कारः' इति । विसम्भो वि-
श्वासः । भद्र कल्याणेति संबोधनम् । अभिजनस्य कुलस्य । असाधारणम् । महदि-
त्यर्थः । अतिमानुषं मानुषमतिक्रम्य वर्तत इति । अपरिमाणं परिमाणरहितम् ।
औदार्यमुदारस्य भावस्तथा । अस्त्रकौशलमस्त्रकुशलता। शिल्पज्ञानं रचनाज्ञानम् ।
अविषह्यं सोढुमशक्यम् । अभ्यमित्रीणम् अमित्रान् शत्रूनभिमुखमलं गच्छतीति
तथा । 'अभ्यमित्राच्छ च' (५१२११७ ) इति चकारात्खः । संनिपातिन एकत्राव-
स्थिताः । चिरबिल्वद्रुमो विषद्रुमः । प्रहाणामनुरागवताम् । पित्र्यं पितुरिदम् ।
संशयः संदेहः । भूयोभूयो वारंवारम् । उपधाभिः 'उपधा धर्माद्यैर्यत्परीक्षणम्'
इत्यमरः । तत्सखः स एव सखेति तत्सखः । 'राजाहः सखिभ्यष्टच्' (५॥४/९१ )
इति टच् । सत्यं सत्यप्रतिज्ञानम् । शौचं शुद्धिः । गूढपुरुषान्गुप्तसेवकान् । कण्टकान्
 
भूषणा ।
 
समृद्धिः । 'स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्' । त्रिगुणा वाङ्मनः कायिकाः ।
षड्गुणाः संध्यादयः । अनेकाधिकरणत्वादनेकप्रकारत्वात् । 'प्रक्रिया चाधिकारः