2023-08-29 13:32:43 by Lakshmainarayana achar
This page has been fully proofread twice.
त्यहनि भद्राकृतमुपनाय्य पुरोहितेन पाठयन्नीतिं राजकार्याण्यन्व
तिष्ठम् । अचिन्तयं च – 'राज्यं नाम शक्तित्रयायत्तम्, शक्त-
यश्च मन्त्रप्रभावोत्साहाः परस्परानुगृहीताः कृत्येषु क्रमन्ते ।
मन्त्रेण हि विनिश्चयोऽर्थानाम्, प्रभावेण प्रारम्भः, उत्साहेन
निर्वहणम् । अतः पञ्चाङ्गमन्त्रमूलः, द्विरूपप्रभावस्कन्धः, चतुर्गु-
णोत्साहविटपः, द्विसप्ततिप्रकृतिपत्रः, षड्गुणकिसलयः, शक्ति-
सिद्धिपुष्पफलश्च, नयवनस्पतिर्नेतुरुपकरोति । स चायमनेकाधि-
करणत्वादसहायेन दुरुपजीव्यः । यस्त्वयमार्यकेतुर्नाम मित्रवर्म-
मन्त्री स कोसलाभिजनत्वात्कुमारमातृपक्षो मन्त्रिगुणैश्च युक्तः,
तन्मतिमवमत्यैव ध्वस्तो मित्रवर्मा, स चेल्लब्ध: पेशलम्' इति । अथ
नालीजङ्घं रहस्यशिक्षयम्—'तात, आर्यमार्यकेतुमेकान्ते ब्रूहि
'को न्वेष मायापुरुषो य इमां राज्यलक्ष्मीमनुभवति । स चायम-
स्मद्बालो भुजङ्गेनामुना परिगृहीतः । किमुद्गीर्येत ग्रस्येत वा
पदचन्द्रिका ।
इति । गुणवति । निर्दोष इत्यर्थः । अहनि दिवसे । भद्राकृतं कृतकल्याणश्मश्रुम् । उपनाय्योपनयनं कारयित्वेत्यर्थः । राज्यमिति । शक्तित्रयायत्तं शक्तित्रयाधीनम् । परस्परानुगृहीता अन्योन्यकृतसहायाः । कृत्येषु कार्येषु । पञ्चाङ्गमन्त्रमूलः ।
'सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमुच्यते ॥" इति कामन्दकः । द्विरूपप्रभावोऽर्थानां पुरुषाणां च समृद्धिः । 'स प्रभावः प्रतापश्च यत्तेजः कोषदण्डजम्' इत्यमरः । स्कन्धः शाखा । चतुर्गुणो य उत्साहः स एव विटपा: शाखा: । द्विसप्ततिप्रकृतयः प्रजाः पत्राणि यस्येति सः । षड्गुणाः
किसलयानि [ यस्येति सः ] । शक्तिसिद्धिपुष्पफलश्च । शक्तित्रयं पुष्पं सिद्धित्रयं च फलमिति । 'षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः' इति । नय एव वनस्पतिर्नीतितरुः । अनेकाधिकरणत्वादनेकप्रकारत्वात् । असहायेन सहायहीनेन ।
दुरुपजीव्यो दुःखेनोपजीवितुं शक्यः । यस्त्वयं नीतिवृक्षः । कोसलाभिजनवात्कोसलवंशत्वात् 'संततिर्गोत्रजनन- कुलान्यभिजनान्वयौ' इत्यमरः। मन्त्रिगुणैः प्रधानगुणैः । अवमत्यावगणय्य । स मन्त्री । चेद्यदीत्यर्थः । लब्धः प्राप्तः । पेशलं सुन्दरम् । तातेति । न्विति वितर्फे । भुजङ्गेन सर्पेण । उद्गीर्येत ।
भूषणा ।
'निर्वेशो भृतिभोगयोः' । परस्परानुगृहीता अन्योन्यकृतसहाया । पञ्चाङ्गमन्त्रमूलम् । 'सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्ग इत्यपि ॥' इति कामन्दकः । द्विरूपप्रभावोऽर्थानां पुरुषाणां च