2023-05-18 02:09:53 by ambuda-bot
This page has not been fully proofread.
प्रथमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
१७
A
सैकततले खनननिक्षिप्तचरणं लक्षीकृत्य शितशरनिकरेण वा,
अनेकचरणैः पलायमानं कुक्कुरबालकैर्वा दंशयित्वा संहनिष्यामः'
इति भाषमाणा मया समभ्यभाष्यन्त – 'ननु किरोतोत्तमाः, घोर-
प्रचारे कान्तारे स्खलितपथः स्थविरभूसुरोऽहं मम पुत्रकं कचिच्छा-
यायां निक्षिप्य मार्गान्वेषणाय किंचिदन्तरमगच्छम् । स कुत्र
गतः ?, केन वा गृहीतः ?, परीक्ष्यापि न वीक्ष्यते । तन्मुखालोकनेन
विनानेकान्यहान्यतीतानि । किं करोमि, क्क यामि, भवद्भिर्न
किमदर्शि ?' इति । 'द्विजोत्तम, कश्चिदत्र तिष्ठति । किमेष तव नन्दनः
सत्यमेव ? तद्नं गृहाण' इत्युक्त्वा दैवानुकूल्येन मह्यं तं व्यतरन् ।
तेभ्यो दत्ताशीरहं बालकमङ्गीकृत्य शिशिरोदकादिनोपचारेणाश्वा-
स्य निःशङ्कं भवदङ्कं समानीतवानस्मि । एनमायुष्मन्तं पितृरूपो
भवानभिरक्षतात्' इति । राजा सुहृदापन्निमित्तं शोकं तन्नन्दनवि-
लोकनसुखेन किंचिधरीकृत्य तमुपहारवर्मनाम्नाहूय राजवाहन-
मिव पुपोष ।
जनपतिरेकस्मिन्पुण्य दिवसे तीर्थस्नानाय पक्कणनिकटमार्गेण
सिकताप्रचुरं सकतम् । सैकतं च तत्तलं च । खननेन निक्षिप्तौ भूमौ कीलितौ
चरणौ यस्य तम् । शितास्तीक्ष्णाश्च ते शराश्च तेषां निकरेण । इदमन्ये अनेकचर-
गैरिति कुक्कुरबालकैरित्यस्य विशेषणम् । पलायमानमेनं बालकम् । दंशयित्वा दंश
कारयित्वा । 'ददंशयित्वा' इति पाठे यडन्तप्रयोगः । इदमप्यपरे किरातोत्तमाः ।
प्रार्थनानुकूलमेतत्संबोधनम् । घोरः प्रचारः संचारो यस्मिंस्तथा । कान्तारे दुर्गमे
वर्त्मनि स्खलितः पन्था यस्य सः । 'ऋक्पूरब्धूःपथामानक्षे (५१४१७४) । पथिन्
इत्यस्य पथः । स्थविरो वृद्धः । भूसुरो भुवि पृथ्व्यां सुरो द्विजः । निक्षिप्य
संस्थाप्य । मार्गस्यान्वेषणं गवेषणम् । मुखालोकनेन विना । 'पृथग्विना--'
( २।३।३२ ) इति तृतीया । अतीतानि गतानि । अदर्शि । 'हशिर् प्रेक्षणे' ।
कर्मणि लुब् । गृहाण । 'ग्रह उपादाने' । लोटो रूपम् । दैवस्यानुकूल्यं तेन ।
व्यतरन्नददुः । दत्ताशीर्येन सः शिशिरं शीतम् । निःशङ्कमिति क्रियाविशेषणम् ।
भवदङ्कं भवन्निकटम् । अभिरक्षतात् । 'तुह्योस्तातडाशिष्यन्यतरस्याम् (७॥१॥३५ )
इति तातङ् । अधरीकृत्य दूरीकृत्य तनूकृत्य वा । पुपोष वृद्धिं नीतवान् ॥
जनपतिरिति । पुण्यदिवसे पर्वणि । तीर्थे स्नानं तीर्थस्नानं तस्मै । पक्कणः
पाठा० - १ 'ददंशयित्वा'. २ 'किरातास्तमोघोरप्रचारे'; 'किराताः सुघोर-
अचारे'. ३ 'संकुचीकृत्य'.