2023-08-29 13:32:51 by Lakshmainarayana achar
This page has been fully proofread twice.
केतितपौरामात्यसामन्तवृद्धैः सहाभ्येत्य भगवतीमर्चयित्वा, सर्व-
जनप्रत्यक्षं परीक्षितकुक्षिवैजन्यं तद्भवनं विधाय दत्तदृष्टि: सह
जनेन स्थित्वा, पटीयांसं पटहशब्दमकारयत् । अणुतररन्ध्रप्रविष्टेन
तेन नादेनाहं दत्तसंज्ञः शिरसैवोत्क्षिप्य सप्रतिमं लोहपादपीठ-
मंसलपुरुषप्रयत्नदुश्चलमुभयकरविधृतमेकपार्श्वमेकतो निवेश्य निर-
गमम् । निरगमयं च कुमारम् । अथ यथापूर्वमर्चयित्वा दुर्गामुद्घा-
टितकपाट: प्रत्यक्षीभूय प्रत्ययहृष्टदृष्टि स्पष्टरोमाञ्चमुद्यताञ्जलि
रूढविस्मयं च प्रणिपतन्तीः प्रकृतीरभ्यधाम् – 'इत्थं देवी विन्ध्य-
वासिनी मन्मुखेन युष्मानाज्ञापयति – ' स एष राजसूनुरापन्नो
'मया सकृपया शार्दूलरूपेण तिरस्कृत्याद्य वो दत्तः । तमेनमद्यप्रभृति मत्पुत्रतया मन्दमातृपक्ष इति परिगृह्णन्तु भवन्तः' । अपि च दुर्घटकूटकोटिघटनापाटवप्रकटशाठ्य निष्ठुराश्मक- घटघट्टनात्मानं मां मन्यध्वमस्य रक्षितारम् । रक्षानिर्वेशश्चास्य स्वसेयं सुभ्रूरभ्यनुज्ञाता मह्यमार्यया' इति । श्रुत्वैतत् 'अहो भाग्यवान्भोजवंशः यस्य त्वमार्यादत्तो नाथः' इत्यप्रीयन्त प्रकृतयः । सा तु वाचामगोचरां हर्षावस्थामस्पृशन्मे श्वश्रूः । तदहरेव च यथावदग्राहयन्मञ्जुवादिनीपाणिपल्लवम् । प्रपन्नायां च यामिन्यां सम्यगेव बिलं प्रत्यपूरयम् । अलब्धरन्ध्रश्च लोको नष्टमुष्टिचिन्तादिकथनैरभ्युपायान्तरप्रयुक्तैर्दिव्यांशतामेव मम समर्थयमानः, मदाज्ञां नात्यवर्तत । राजपुत्रस्यार्यापुत्र इति प्रभावहेतुः प्रसिद्धिरासीत् । तं च गुणव-
पदचन्द्रिका ।
र्हाण्यमौल्यानि । पट्टनिवसनानि पट्टवस्त्राणि । पूर्वेद्यु: पूर्वदिवसे । प्रत्युषसि प्रातःकाले । वैजन्यं विजनस्य भावस्तथा । पटीयांसं श्रेष्ठम् । पटहशब्दं दुन्दुभिध्वनिम् । अंसलपुरुषो मांसलपुरुषः । 'बलवान्मांसलोंऽसल: ' इत्यमरः । 'वत्सांसाभ्यां कामबले' (५।२।९८) इति लच् प्रत्ययः । साक्षात्कारः । हृष्टा हर्ष प्राप्ता दृष्टिर्यत्रेति ।
प्रकृती: प्रजाः । आपन्न आपत्प्राप्तः । तिरस्कृत्यान्तर्धाय । दुर्घटा घटनाशक्या । कूटं कपटम् । कोटिरग्रम् । संख्या वा । घटना योजना । पाटवं कुशलता । स्वसा भगिनी । अप्रीयन्त प्रीतिमापुः । अगोचरामविषयाम् । दिव्यांशतां दिवि भवा दिव्यास्तेषामंशस्तस्य भावस्तत्ता ताम् । आर्यापुत्र इति भवानीपुत्र
भूषणा ।
न्यासो यस्यां तथा । एतेन चिह्नदर्शनं नास्तीति सूचितम् । दुर्गागृहे देवा-
२४ द० कु०