2023-08-28 08:13:30 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
कस्यापि चारभटस्य पीवरांसबाहुशिखरमाक्रम्य, तावतैव तं
विचेतीकुर्वन्, आकुलं च लोकमुच्चक्षूकुर्वन्, द्विपुरुषोच्छ्रितं प्राकारमत्यङ्घ्घयम् । अवप्लुत्य चोपवने 'मदनुपातिनामेष पन्था दृश्यते' इति ब्रुवाण एव नालीजङ्घसमीकृतसैकतास्पष्टपादन्यासया तमालवीथ्या चानुप्राकारं प्राचा प्रतिप्रधावितः; पुनरवाचोच्चितेष्टकचितत्वादलक्ष्यपातेन प्रद्रुत्य लङ्घितप्राकार- प्रखातवलयः तस्यां शून्यमठिकायां तूर्णमेव प्रविश्य, प्रतिमुक्तपूर्ववेषः सह कुमारेण मत्कर्मतुमुलराजद्वारि- दुःखलब्धवर्त्मा श्मशानोद्देशमभ्यगाम् । । प्रागेव तस्मिन्दुर्गागृहे प्रतिमाधिष्ठान एव मया कृतं भग्नपार्श्वस्थैर्यस्थूलप्रस्तर- स्थगितबाह्यद्वारं बिलम् ।
अथ गलति मध्यरात्रे वर्षवरोपनीतमहार्हरत्नभूषणपट्टनिव-
सनौ तद्बिलमावां प्रविश्य तूष्णीमतिष्ठाव । देवी तु पूर्वेद्युरेव यथार्हमग्निसंस्कारं मालवाय दत्त्वा प्रचण्डवर्मणे, चण्डवर्मणे च तामवस्थामश्मकेन्द्रोपधिकृतामेव संदिश्य, उत्तरेद्युः प्रत्युषस्येव पूर्वसं-
पदचन्द्रिका
कुररपातः । 'उत्क्रोशकुररौ समौ' इत्यमरः । चापः । प्रसारितबाहुद्वयप्रमाणं चाप इत्युच्यते । भाषया 'वांव' इति प्रसिद्धिः । 'विंशतिचाप' इति पाठो मुख्यः । मद्गात्रं मच्छरीरम् । उत्कर्तुं
त्रोटितुम् । उद्यतासेरूर्ध्वीकृतखड्गस्य । चारभटस्य चारश्चासौ भटश्चेति व्युत्पत्तिः । 'भटश्चारभटो मतः' इति हलायुधः ।
पीवरांस मांसलस्कन्धम् । तं चारभटम् । द्विपुरुषोच्छ्रितं पुरुषद्वयप्रमाणोच्चम् । अवप्लुत्योड्डीय । सैकतं सिकतामयम् । अस्पष्टपादन्यासया न स्पष्टः पादन्यासश्चरणपातो यस्यामिति । तमालवीथ्या तमालपङ्क्त्या अवाचोच्चितेष्टका उच्चनीचबद्धेष्टकाः । तुमुलो व्याकुलरवः । 'तुमुलो व्याकुलरवः' इति महीपः । प्रस्तरः पाषाणः । 'पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्' इत्यमरः ॥
अथेति । गलति । गच्छतीत्यर्थः । वर्षवरः । 'षण्ढो वर्षवरः'इत्यमरः । महा-
भूषणा ।
विशेषः । 'उत्कोशकुररौ समौ' इत्यमरः । अरूकर्तुं छेत्तुम् । विचेतीकुर्वन् । 'अरुर्मनश्चक्षुः - (५।४।५१) इति सलोपः । नालीजङ्घम् । अन्विति शेषः । सैकतास्पष्टपादस्य
लघुदीपिका ।
र्मनश्चक्षुश्चेतः -' (५।४।५१ ) इत्यादिना सकारलोपः । 'भटश्चारभटो मतः' इति हलायुधः । प्रतिमुक्तं संबद्धम्। 'आमुक्तं प्रतिमुक्तं च पिनद्धं चापिनद्धवत्' । प्रस्तरः शिला । 'पाषाणप्रस्तर- भावोपलाश्मानः' । 'षण्ढो वर्षवरः समौ' । 'निर्वेशो भृति-
विचेतीकुर्वन्, आकुलं च लोकमुच्चक्षूकुर्वन्, द्विपुरुषोच्छ्रितं प्राकारमत्यङ्