2023-08-29 13:33:09 by Lakshmainarayana achar

This page has been fully proofread twice.

कुशीलवैः' इति । 'यद्येवमुद्याने तिष्ठ' इति तं जरन्तमादिश्य
तत्प्राकारैकपार्श्वे क्वचिच्छून्यमठिकायां मात्राः समवतार्य, तद्रक्ष-
णनियुक्तराजपुत्रः,कृतकुशीलववेपलीलः प्रचण्डवर्माणमेत्यान्वरञ्ज-
यम् । अनुरञ्जितातपे तु समये, जनसमाजज्ञानोपयोगीनि संहृत्य
नृत्यगीतनानारुदितानि हस्तचङ्क्रमणमूर्ध्वपादालातपादापीड- वृश्चिकमकरलङ्घनादीनि मत्स्योद्वर्तनादीनि च करणानि, पुनरादायादायासन्नवर्तिनां क्षुरिकाः ताभि [^१]रुपाहितवर्ष्मा चित्रदुष्कराणि करणानि श्येनपातोत्क्रोशपातादीनि दर्शयन्, विंशतिचापान्तरालावस्थितस्य प्रचण्डवर्मणश्छुरिकयैकया प्रत्युरसं प्रहृत्य, 'जीव्याद्वर्षसहस्रं वसन्तभानुः' इत्यभिगर्जन्, [^२]मद्गात्रमरूकर्तुद्यतासेः
 
पदचन्द्रिका ।
 
र्गायकैः । 'गायकास्तु कुशीलवाः' इति वैजयन्ती । उद्यान उपवने । जरन्तं जीर्णम् । 'प्राकारो वरणः सालः' इत्यमरः । अल्पो [मठो] मठिका । मात्राः परिच्छदादीन् । 'मात्रा परिच्छदेऽल्पेऽशे प्रवृत्तौ कर्णभूषणे । अक्षरावयवे माने' इति वैजयन्ती । तद्रक्षणे मात्रारक्षणे । जनसमाजस्य लोकसमूहस्य ज्ञानोपयोगीनि । नृत्यं नर्तनम् । गीतं गानम् । नानारुदितानि रोदनशब्दानुकरणानि । हस्तयोश्चङ्क्रम-
णमितस्ततः प्रसारणम् । भ्रमणं वा । ऊर्ध्वपादमलातपादम् । 'कराभ्यामवनीं स्पृष्ट्वा मूर्धानं भ्रमयेन्मुहुः । उत्तानीकृत्य चरणावूर्ध्वपादं तदुच्यते ॥' इति नृत्याध्याये भरतः । 'उद्धृत्यैकं तु चरणमन्यं कृत्वैव कुञ्चितम् । नृत्यत्यनुमतं तिर्यक्तदलातकमेव च ॥' इत्यपि । वृश्चिकलङ्घनं मकरलङ्घनं चेति द्वन्द्वान्ते श्रयमाणं पदं
प्रत्येकं संबध्यते । मत्स्योद्वर्तनानि मीनवद्विलसितानि । आदायादाय । विश्वासद्योतनार्थं द्विरुक्तिः । क्षुरिकाः शस्त्राणि । ताभिः क्षुरिकाभिः । उपाहितवर्ष्मा संयुक्तदेहः । 'वर्ष्म विग्रहः' इत्यमरः । श्येनपातः । 'परिक्रम्यान्तरिक्षेण संप्राग्योच्चैरदृश्यताम् । आकस्मिकाभिपातेन श्येनपात इतीरितः' इति । उत्क्रोशपातश्च
 
भूषणा ।
 
 
समाकृष्य ता विकोशाः कृत्वा । उपहितवर्ष्मा छिन्नशरीरः । उत्क्रोशपातः पक्षि-
 
लघुदीपिका ।
 
हलायुधः । 'गायकास्तु कुशीलवाः' इति वैजयन्ती । मात्राः परिच्छदान् । 'मात्रा परिच्छदेऽल्पेंऽशे प्रवृत्तौ कर्णभूषणे ।अक्षरावयवे माने' इति वैजयन्ती । चङ्क्रमणं भ्रमणम् । उपहितवर्ष्मा तिरस्कृतशरीरः । 'वर्ष्म देहप्रमाणयोः' ।
उत्क्रोशपातः पक्षिविशेषवत्पतनम् । 'उत्क्रोशकुररौ समौ' ।
अरूकर्तुम् । 'अरु -
 
[^१]G. 'उपहित'.
[^२]G. 'मुत्कर्तुम्'.