2023-08-29 13:33:18 by Lakshmainarayana achar

This page has been fully proofread twice.

ऽभूत् । प्रतिदिशं च लोकवाद : प्रासर्पत्– 'अहो माहात्म्यं पति-
व्रतानाम् । असिप्रहार एव हि स मालाप्रहारस्तस्मै जातः ।
न शक्यमुपधियुक्तमेतत्कर्मेति वक्तुम् । यतस्तदेव दत्तं दाम
दुहित्रे स्तनमण्डनमेव तस्यै जातं न मृत्युः । योऽस्याः पतिव्रतायाः
शासनमतिवर्तते स भस्मैव भवेत्' इति ।
अथ महाव्रतिवेषेण मां च पुत्रं च भिक्षायै प्रविष्टौ दृष्ट्वा
प्रस्नुतस्तनी प्रत्युत्थाय हर्षाकुलमब्रवीत् – 'भगवन्, अयमञ्जलिः ।
अनाथोऽयं जनोऽनुगृह्यताम् । अस्ति ममैकः स्वप्नः स किं
सत्यो न वा ?' इति । मयोक्तम् – 'फलमस्याद्यैव द्रक्ष्यसि' इति ।
'यद्येवं बहु भागधेयमस्या वो दास्याः । स खल्वस्याः सानाथ्यशंसी स्वप्नः' इति मदर्शनरागबद्धसाध्वसां मञ्जुवादिनीं प्रणमय्य, भूयोऽपि सा हर्षगर्भमब्रूत – 'तच्चेन्मिथ्या सोऽयं युष्मदीयो [^१]बालकपाली श्वो मया निरोद्धव्यः' इति । मयापि सस्मितं
मञ्जवादिनीरागलीन [^२]दृष्टिलीढधैर्येणाभिहितम्– 'एवमस्तु' इति । लब्धभैक्षः, नालीजङ्घमाकार्य निर्गम्य ततश्च तं चानुयान्तं शनैर-पृच्छम् – 'क्वासावल्पायुः प्रथितः प्रचण्डवर्मा ?' इति । सोऽब्रूत-
'राज्यमिदं ममेत्यपास्तशङ्को राजास्थानमण्डप एव तिष्ठत्युपास्यमानः
 
पदचन्द्रिका ।
 
असिप्रहार एव खड्गप्रहार एव । उपधिः कपटम् । दाम माला । दुहित्रे कन्यायै । स्तनमण्डनं कुचभूषणम् । शासनमाज्ञाम् । अतिवर्ततेऽतिक्रामति । प्रस्नुतस्तनी पयःप्रसरत्स्तनी । द्रक्ष्यसि पश्यसीत्यर्थः । सानाथ्यशंसी सनाथस्य भावः सानाथ्यं,तच्छंसतेऽसौ तथा । मद्दर्शनरागेण बद्धं साध्वसं ययेति सा ताम् । मञ्जुवादि-
नीम् । मञ्जु मञ्जुलं वदति सा मञ्जुवादिनी ताम् । प्रणमय्य । नमस्कारं कारयित्वेत्यर्थः । अब्रूत । 'ब्रूञ् व्यक्तायां वाचि' इत्यस्य रूपम् । सस्मितं सहासमभिहितम् । रागलीना या दृष्टिस्तया लीढमास्वादितं धैर्यं यस्य तेन । लब्धभैक्षो लब्धा प्राप्ता भिक्षा येनेति 'भिक्षादिभ्योऽण्' (४।२।३८) । नालीजङ्घमेतन्नामानम् । आकार्याहूय । अनुयान्तं पश्चादनुवर्तमानम् । आस्थानमण्डपे सभामण्डपे । कुशीलवै-
 
भूषणा ।
 
तं जरन्तम् । यः कूपे पतितः स्थितः । आसन्नवर्तिनां समीपस्थानां पुरुषाणाम् ।
 
[^१]G. 'बाल:'.
[^२]G. 'दीन'.