2023-05-18 02:11:05 by ambuda-bot
This page has not been fully proofread.
२७४
दशकुमारचरितम् ।
[अष्टमः
ऽभूत् । प्रतिदिशं च लोकवाद : प्रासर्पत्
– 'अहो माहात्म्यं पति-
ब्रतानाम् । असिप्रहार एव हि स मालाप्रहारस्तस्मै जातः ।
न शक्यमुपधियुक्तमेतत्कर्मेति वक्तुम् । यतस्तदेव दत्तं दाम
दुहित्रे स्तनमण्डनमेव तस्यै जातं न मृत्युः । योऽस्याः पतिव्रतायाः
शासनमतिवर्तते स भस्मैव भवेत्' इति ।
न
अथ महाव्रतिवेषेण मां च पुत्रं च भिक्षायै प्रविष्टौ दृष्ट्वा
प्रस्तुतस्तनी प्रत्युत्थाय हर्षाकुलमब्रवीत् – 'भगवन्, अयमञ्जलिः ।
अनाथोऽयं जनोऽनुगृह्यताम् । अस्ति ममैकः स्वप्नः स किं
सत्यो न वा ?' इति । मयोक्तम् – 'फलमस्याद्यैव द्रक्ष्यसि' इति ।
'यद्येवं बहु भागधेयमस्या वो दास्याः । स खल्वस्याः साना-
थ्यशंसी स्वप्नः' इति मदर्शनरागबद्धसाध्वसां मञ्जुवादिनीं प्रण-
मय्य, भूयोऽपि सा हर्षगर्भमब्रूत – 'तच्चेन्मिथ्या सोऽयं युष्म-
दीयो बालकपाली वो मया निरोद्धव्यः' इति । मयापि सस्मितं
मञ्जवादिनीरागलीने दृष्टिलीढधैर्येणाभिहितम्– 'एवमस्तु' इति ।
लब्ध भैक्षः, नालीजङ्गमाकार्य निर्गम्य ततश्च तं चानुयान्तं शनैर-
पृच्छम् – 'क्वासावल्पायुः प्रथितः प्रचण्डवर्मा ?' इति । सोऽब्रूत-
'राज्यमिदं ममेत्यपास्तशङ्को राजास्थानमण्डप एव तिष्ठत्युपास्यमानः
पदचन्द्रिका ।
असिप्रहार एव खड्गप्रहार एव । उपधिः कपटम् । दाम माला । दुहित्रे कन्यायै ।
स्तनमण्डनं कुचभूषणम् । शासनमाज्ञाम् । अतिवर्ततेऽतिक्रामति । प्रनुतस्तनी
पयःप्रसरत्स्तनी । द्रक्ष्यसि पश्यसीत्यर्थः । सानाथ्यशंसी सनाथस्य भावः सानाथ्यं,
तच्छंसतेऽसौ तथा । मद्दर्शनरागेण बद्धं साध्वसं ययेति सा ताम् । मञ्जुवादि-
नीम् । मञ्जु मञ्जुलं वदति सा मञ्जुवादिनी ताम् । प्रणमय्य । नमस्कारं
कारयित्वेत्यर्थः । अब्रूत । 'ब्रून् व्यक्तायां वाचि' इत्यस्य रूपम् । सस्मितं सहा-
समभिहितम् । रागलीना या दृष्टिस्तया लीढमाखादितं धैर्य यस्य तेन । लब्धमैक्षो
लब्धा प्राप्ता भिक्षा येनेति 'भिक्षादिभ्योऽण्' (४।२।३८) । नालीजङ्घमेतन्नामानम् ।
आकार्याहूय । अनुयान्तं पश्चादनुवर्तमानम् । आस्थानमण्डपे सभामण्डपे । कुशीलवै-
भूषणा ।
तं जरन्तम् । यः कूपे पतितः स्थितः । आसन्नवर्तिनां समीपस्थानां पुरुषाणाम् ।
पाठा० - १ 'बाल:'. २ 'दीन'.