2023-08-26 07:28:09 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
मृगयवे, अन्यस्यापलोमत्वचः क्लोमापोह्य, निष्कुलाकृत्य विकृ
त्योर्ङ्घ्रि [^१]ग्रीवादीनि शूलाकृत्य दावाङ्गारेषु, तप्तेनामिषेण तयोरात्मनश्च [^२]क्षुधमतार्षम् । एतस्मिन्कर्मणि मत्सौष्ठवेनातिहृष्टं किरातमस्मि पृष्टवान् – [^३]'अपि जानासि माहिष्मतीवृत्तान्तम् ?' इति असावाचष्ट — 'तत्र व्याघ्रत्वचो दृतीश्च विक्रीयाद्यैवागतः, किं
न जानामि । प्रचण्डवर्मा नाम चण्डवर्मानुजो मित्रवर्मदुहितरं
मञ्जुवादिनीं विलिप्सुरभ्येतीति तेनोत्सवोत्तरा पुरी' इति ।
अथ कर्णे जीर्णमब्रवम् – 'धूर्तो मित्रवर्मा दुहितरि सम्यक्प्रति-
पत्त्या मातरं विश्वास्य तन्मुखेन प्रत्याकृष्य बालकं जिघांसति ।
तत्प्रतिगत्य कुशलमस्य मद्वार्तां च देव्यै रहो निवेद्य पुनः
कुमार: शार्दूलभक्षित इति प्रकाशमाक्रोशनं कार्यम् । स दुर्मति-
रन्तःप्रीतो बहिर्दुःखं दर्शयन्देवीमनुनेष्यति । पुनस्तया त्वन्मुखेन
स वाच्यः – 'यदुपेक्षया त्वन्मतमत्यक्रमिषं सोऽपि बालः पापेन
मे परलोकमगात् । अद्य तु त्वदादेशकारिण्येवाहम्' इति । स
तथोक्तः प्रीतिं [^४]प्रतिपद्याभिपत्स्यति । पुनरनेन वत्सनाभनाम्ना
पदचन्द्रिका ।
डाच् । अन्यो द्वितीयो निष्पत्राकृतः । मृगयवे लुब्धकाय । अपलोम रोमशून्यम् । त्वचश्चर्मणः । क्लोम मस्तिष्कम् । 'तिलकं क्लोम मस्तिष्कम्' इत्यमरः । निष्कुलाकृत्य निष्कोष्य । विकृत्य विच्छिद्य । अङ्घ्रींश्चरणान् (?) । 'अङ्गानि' इति वा पाठः ।
शूलाकृत्य शूले कृत्वा । शूलेन पाचयित्वेत्यर्थः । 'शूलापाके' (५।४।६५) इति डाच् । दावाङ्गारेषु वनवह्निषु । तप्तेन भर्जितेन । आमिषेण मांसेन । क्षुधं क्षुधाम् । अतार्षमतिक्रान्तवान् । व्याघ्रत्वचो व्याघ्रचर्माणि । दृतीश्चर्मपुटानि । 'दृतिभिद्यतनी
यज्ञभस्त्री चापि स्त्रियः समाः' इति । आक्रोशनमाक्षारणा । वत्सनाभः । 'दारदो
भूषणा ।
किमीयः । कस्यायं किमीयः । जात्या कीदृशजाते: संबन्धी । किं न जानामि । अपि तु जानाम्येव । अभिलष्यति (ॽ) संमील्य मेलनं कृत्वा । वैजन्यम् । जन-
लघुदीपिका ।
पत्रम्' इति भागुरिः । 'सपत्रनिष्पत्रादतिव्यथने' (५।४।६१ ) इति डाच् । क्लोम । 'तिलकं क्लोम मस्तिष्कम्' । निष्कुलाकृत्य । 'निष्कुलान्निष्कोषणे (५।४।६२ ) इति डाच् । शूलाकृत्य । 'शूलापाके' (५।४।६५ ) इति डाच् । 'दृतिभिद्यतनीयज्ञभस्त्री
[^१]G. 'र्वस्थिग्रीवादीनि',
[^२]G. 'अत्यतार्प्सम्', 'अत्यक्षिपम्', 'अत्यतार्षम्'.
[^३]G. 'अयि'.
[^४G. 'प्रत्यपत्स्यते'.