2023-08-26 07:25:17 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२७२
 
दशकुमारचरितम् ।
 
[ अष्टमः
 
मृगयवे, अन्यस्यापलोमत्वचः कोक्लोमापोह्य, निष्कुलाकृत्य विकृ

त्योश्र्ङ्घ्रि [^१]ग्रीवादीनि शूलाकृत्य दावाङ्गारेषु, तप्तेनामिषेण तयोरा-
त्मनश्च [^२]क्षुधेमतार्षम् । एतस्मिन्कर्मणि मत्सौष्ठवेनातिहृष्टं किरा-
तमस्मि पृष्टवान् – 'अँ[^३]'अपि जानासि माहिष्मतीवृत्तान्तम् ?' इति
असावाचष्ट — 'तत्र व्याघ्रत्वचो दृतीश्च विक्रीयाद्यैवागतः, किं

न जानामि । प्रचण्डवर्मा नाम चण्डवर्मानुजो मित्रवर्मदुहितरं

मञ्जुवादिनीं विलिप्सुरभ्येतीति तेनोत्सवोत्तरा पुरी' इति ।

अथ कर्णे जीर्णमब्रवम् – 'धूर्तो मित्रवर्मा दुहितरि सम्यक्प्रति-


पत्त्या मातरं विश्वास्य तन्मुखेन प्रत्याकृष्य बालकं जिघांसति ।

तत्प्रतिगत्य कुशलमस्य मद्वार्तातां च देव्यै रहो निवेद्य पुनः

कुमार: शार्दूलभक्षित इति प्रकाशमाक्रोशनं कार्यम् । स दुर्मति-

रन्तःप्रीतो बहिर्दुःखं दर्शयन्देवीमनुनेष्यति । पुनस्तया त्वन्मुखेन

स वाच्यः – 'यदुपेक्षया त्वन्मतमत्यक्रमिषं सोऽपि बालः पापेन

मे परलोकमगात् । अद्य तु त्वदादेशकारिण्येवाहम्' इति । स

तथोक्तः प्रीतिं प्रतिपद्याभिपत्स्यति । पुनरनेन वत्सनाभनाम्ना

 
पदचन्द्रिका ।
 

 
डाच् । अन्यो द्वितीयो निष्पत्राकृतः । मृगयवे लुब्धकाय । अपलोम रोमशून्यम् ।
त्वचश्चर्मणः । क्लोम मस्तिष्कम् । 'तिलकं क्लोम मस्तिष्कम्' इत्यमरः । निष्कुलाकृत्य
निष्कोष्य । विकृत्य विच्छिद्य । अडींङ्घ्रींश्चरणान् (?) । 'अज्ञाङ्गानि' इति वा पाठः ।

शूलाकृत्य शूले कृत्वा । शूलेन पाचयित्वेत्यर्थः । 'शूलापाके' (५६५) इति डाच् ।
दावाङ्गारेषु वनवह्निषु । तप्तेन भर्जितेन । आमिषेण मांसेन । क्षुधं क्षुधाम् । अता-
र्षमतिक्रान्तवान् । व्याघ्रत्वचो व्याघ्रचर्माणि । दृतीश्चर्मपुटानि । 'दृतिभिद्यतनी

यज्ञभस्त्री चापि स्त्रियः समाः' इति । आक्रोशनमाक्षारणा । वत्सनाभः । 'दारदो
 

 
भूषणा ।
 

 
किमीयः । कस्यायं किमीयः । जात्या कीदृशजाते: संबन्धी । किं न जानामि ।
अपि तु जानाम्येव । अभिलष्यति (1) संमील्य मेलनं कृत्वा । वैजन्यम् । जन-

 
लघुदीपिका ।
 

 
पत्रम्' इति भागुरिः । 'सपत्रनिष्पत्रादतिव्यथने' (५६१ ) इति डाच् । क्लोम ।
'तिलकं क्लोम मस्तिष्कम्' । निष्कुलाकृत्य । 'निष्कुलान्निष्कोषणे (५६२ ) इति
डाच् । शूलाकृत्य । 'शूलापाके' (५६५ ) इति डाच् । 'दृतिभिद्यतनीयज्ञभस्त्री
 
पाठा०-

 
[^
']G. 'र्वस्थिग्रीवादीनि',
[^
]G. 'अत्यतार्प्सम्', 'अत्यक्षिपम्', 'अत्यता-
पेमू
र्षम्'.
[^
]G. 'अयि'.
[^
G. 'प्रत्यपत्स्यते'.