This page has not been fully proofread.

२७२
 
दशकुमारचरितम् ।
 
[ अष्टमः
 
मृगयवे, अन्यस्यापलोमत्वचः कोमापोह्य, निष्कुलाकृत्य विकृ
त्योश्रीवादीनि शूलाकृत्य दावाङ्गारेषु, तप्तेनामिषेण तयोरा-
त्मनश्च क्षुधेमतार्षम् । एतस्मिन्कर्मणि मत्सौष्ठवेनातिहृष्टं किरा-
तमस्मि पृष्टवान् – 'अँपि जानासि माहिष्मतीवृत्तान्तम् ?' इति
असावाचष्ट — 'तत्र व्याघ्रत्वचो हतीश्च विक्रीयाद्यैवागतः, किं
न जानामि । प्रचण्डवर्मा नाम चण्डवर्मानुजो मित्रवर्मदुहितरं
मञ्जुवादिनीं विलिप्सुरभ्येतीति तेनोत्सवोत्तरा पुरी' इति ।
अथ कर्णे जीर्णमब्रवम् – 'धूर्तो मित्रवर्मा दुहितरि सम्यक्प्रति-

पत्त्या मातरं विश्वास्य तन्मुखेन प्रत्याकृष्य बालकं जिघांसति ।
तत्प्रतिगत्य कुशलमस्य मद्वार्ता च देव्यै रहो निवेद्य पुनः
कुमार: शार्दूलभक्षित इति प्रकाशमाक्रोशनं कार्यम् । स दुर्मति-
रन्तःप्रीतो बहिर्दुःखं दर्शयन्देवीमनुनेष्यति । पुनस्तया त्वन्मुखेन
स वाच्यः – 'यदुपेक्षया त्वन्मतमत्यऋमिषं सोऽपि बालः पापेन
मे परलोकमगात् । अद्य तु त्वदादेशकारिण्येवाहम्' इति । स
तथोक्तः प्रीतिं प्रतिपद्याभिपत्स्यति । पुनरनेन वत्सनाभनाम्ना
पदचन्द्रिका ।
 
डाच् । अन्यो द्वितीयो निष्पत्राकृतः । मृगयवे लुब्धकाय । अपलोम रोमशून्यम् ।
त्वचश्चर्मणः । क्लोम मस्तिष्कम् । 'तिलकं क्लोम मस्तिष्कम्' इत्यमरः । निष्कुलाकृत्य
निष्कोष्य । विकृत्य विच्छिद्य । अडींश्चरणान् (?) । 'अज्ञानि' इति वा पाठः ।
शूलाकृत्य शूले कृत्वा । शूलेन पाचयित्वेत्यर्थः । 'शूलापाके' (५१४१६५) इति डाच् ।
दावागारेषु वनवह्निषु । तप्तेन भर्जितेन । आमिषेण मांसेन । क्षुधं क्षुधाम् । अता-
र्षमतिक्रान्तवान् । व्याघ्रत्वचो व्याघ्रचर्माणि । दृतीश्चर्मपुटानि । 'इतिभिद्यतनी
यज्ञभस्त्री चापि स्त्रियः समाः' इति । आक्रोशनमाक्षारणा । वत्सनाभः । 'दारदो
 
भूषणा ।
 
किमीयः । कस्यायं किमीयः । जात्या कीदृशजाते: संबन्धी । किं न जानामि ।
अपि तु जानाम्येव । अभिलष्यति (1) संमील्य मेलनं कृत्वा । वैजन्यम् । जन-
लघुदीपिका ।
 
पत्रम्' इति भागुरिः । 'सपत्रनिष्पत्रादतिव्यथने' (५॥४१६१ ) इति डाच् । क्लोम ।
'तिलकं क्लोम मस्तिष्कम्' । निष्कुलाकृत्य । 'निष्कुलान्निष्कोषणे (५॥४॥६२ ) इति
डाच् । शूलाकृत्य । 'शूलापाके' (५१४१६५ ) इति डाच् । 'दृतिभिद्यतनीयज्ञभस्त्री
 
पाठा०-१ 'वस्थिग्रीवादीनि', २ 'अत्यतासम्', 'अत्यक्षिपम्', 'अत्यता-
पेमू'. ३ 'अयि'. ४ 'प्रत्यपत्स्यते'.