2023-05-18 02:11:04 by ambuda-bot
This page has not been fully proofread.
उच्छ्वासः ] पदचन्द्रिका-भूषणा -लघुदीपिकासहितम् । २७१
माहिष्मतीं भर्तृद्वैमातुराय भ्रात्रे मित्रवर्मणे सापत्या देवी दर्शिताभूत् ।
तां चार्यामनार्योऽसावन्यथाभ्यमन्यत । निर्भत्सितच तया 'सुतमि-
यमखण्डचारित्रा राज्याई चिकीपति' इति नैर्घृण्यात्तमेनं
बालमजिघांसीत् । इदं तु ज्ञात्वा देव्याहमाज्ञप्तः - 'तात
नालीजङ्घ, जीवतानेनार्भकेण यत्र कचिदवधाय जीव । जीवेयं
चेदहमप्येनमनुसरिष्यामि । ज्ञापय मां क्षेमप्रवृत्तः स्ववार्ताम्
इति । अहं तु संकुले राजकुले कथंचिदेनं निर्गमय्य विन्ध्या-
टवीं व्यगाहिषि । पादचारिणं चैनमाश्वासयितुं वोपे क्वचिद-
हानि कानिचिद्विश्रमय्य, तत्रापि राजपुरुपसंपातमीतो दूराव-
मपासरम् । तत्रास्य दारुणपिपासापीडितस्य वारि दातुकामः
कूपेऽस्मिन्नपभ्रश्य पतितस्त्वयैवमनुगृहीतः । त्वमेवास्यातः शरण-
मेधि विशरणस्य राजसूनोः' इत्यञ्जलिमवघ्नात् ।'किमीया
जात्यास्य माता' इत्यनुयुक्ते मयामुनोक्तम् – 'पाटलिपुत्रस्य वणिजो
वैश्रवणस्य दुहितरि सागरदत्तायां कोसलेन्द्रात्कुसुमधन्वनोऽस्य
माता जाता ' इति । 'यद्येवमेतन्मातुर्मत्पितुश्चैको मातामहः' इति
सस्नेहं तमहं सस्वजे । वृद्धेनोक्तम् – 'सिन्धुदत्तपुत्राणां कतमस्ते
पिता ?' इति । 'सुश्रुतः' इत्युक्ते सोऽत्यहृष्यत् । अहं तु 'तं नया-
वलिप्तमश्मेकनयेनैवोन्मूल्य बालमेनं पित्र्ये पदे प्रतिष्ठापयेयम्'
इति प्रतिज्ञाय 'कथमस्यैनां क्षुधं क्षयेयम्' इत्यचिन्तयम् । ताव-
दापतितौ च कस्यापि व्याधस्य त्रीनिषूनतीय द्वौ मृगौ स च
व्याधः । तस्य हस्तादवशिष्टमिषुद्वयं कोदण्डं चाक्षिप्यावधिषम्
एकश्च सपत्राकृतोऽन्यश्च निष्पत्राकृतोऽपतत् । तं चैकं मृगं दत्त्वा
पदचन्द्रिका ।
चरणगामिनम् । घोष आभीराल्पग्रामे । 'घोष आभीरपल्ली स्यात्' इत्यमरः ।
दूरावं दूरमार्गम् । पिपासा तृषा । विशरणस्य शरणरहितस्य । अश्मकनयेन
पाषाणोन्मूलनेन । पित्र्ये पदे पितुः स्थाने । सपत्राकृतः पत्रेण सह विद्धः ।
'वाहने तु छदे पत्रम्' इति भागुरिः । 'सपत्रनिष्पत्रादतिव्यथने (५१४१६१ ) इति
भूषणा ।
पृतम् । नैर्घृण्यादकरुणत्वात् । जीवेयं चेदिति । यदि मज्जीवनं भवेत्तदेत्यर्थः ।
लघुदीपिका ।
मित्रैश्च । 'घोष आभीरपल्ली स्यात् । सपत्राकृतः पत्रेण सह विद्धः । वाहने तु छदे
पाठा० - १ 'पादचारदुःस्थितम्'. २ 'अश्मकेन्द्रम्'. ३ 'क्षपेयम्',