2023-08-29 13:33:53 by Lakshmainarayana achar

This page has been fully proofread twice.

पतेरवन्तिदेवस्यात्मनाटकीयां क्ष्मातलोर्वशीं नाम चन्द्रपालिता-
दिभिरतिप्रशस्तनृत्यकौशलामाहूयानन्तवर्मा नृत्यमद्राक्षीत् । अति-
रक्तश्च भुक्तवानिमां [^१]मधुमत्ताम् । अश्मकेन्द्रस्तु कुन्तलपति-
मेकान्ते समभ्यधत्त -"प्रमत्त एष राजा कलत्राणि नः
परामृशति । कियत्यवज्ञा सोढव्या । मम शतमस्ति हस्तिनाम्,
पञ्चशतानि च ते । तदावां संभूय मुरलेशं वीरसेनमृची-केशमेकवीरं कोङ्कणपतिं कुमारगुप्तं नासिक्यनाथं च नाग-
पालमुपजपाव । ते चावश्यमस्याविनयमसहमाना अस्मन्मते-
नैवोपावर्तेरन् । अयं च वानवास्यः प्रियं मे मित्रम् । अमुनैनं
दुर्विनीतमग्रतो व्यतिषक्तं पृष्ठतः प्राहरेम । कोशवाहनं च
विभज्य गृह्णीमः' इति । हृष्टेन चामुनाभ्युपेते विंशतिं वरांशुका-
नाम्, पञ्चविंशतिं काञ्चनकुङ्कुमकम्बलानाम्, प्राभृतीकृत्याप्त-
मुखेन तैः सामन्तैः संमन्त्र्य तानपि स्वमतावस्थापयत् । उत्तरेद्यु-
स्तेषां सामन्तानां वानवास्यस्य चानन्तवर्मा नयद्वेषादामिषत्वम-
गतम् । वसन्तभानुश्च 'तत्कोशवाहनमवशीर्णमात्माधिष्ठितमेव
कृत्वा यथाबलं च विभज्य गृह्णीत । युष्मद्नुज्ञया येन-
केनचिदंशेनाहं तुष्यामि' इति शाठ्यात्सर्वानुवर्ती, तेनैवामि-
षेण निमित्तीकृतेनोत्पादितकलह: सर्वसामन्तानध्वंसयत् । तदीयं
च सर्वस्वं स्वयमेवाग्रसत् । वानवास्यं केनचिदंशेनानुगृह्य प्रत्या-
वृत्य सर्वमनन्तवर्मराज्यमात्मसादकरोत् ।
अस्मिश्चान्तरे मन्त्रिवृद्धो वसुरक्षितः कैश्चिन्मौलैः संभूय बाल-
मेनं भास्करवर्माणम्, अस्यैव ज्यायसीं भगिनीं त्रयोदशवर्षा मञ्जु-
वादिनीम्, अनयोश्च मातरं महादेवीं वसुंधरामादायापसर्पन्नाप-
दोऽस्या भावितया दाहज्वरेण देहमजहात् । अस्मादृशैर्मित्रैस्तु नीत्वा
 
पदचन्द्रिका ।
 
आत्मनाटकीयां स्वीयनृत्याङ्गनाम् । संभूय मिलित्वा प्राभृतीकृत्योपायनीकृत्य । अस्मिन्निति । अपसर्पन्निर्गच्छन् । द्वैमातुराय । सापत्नभ्रात्र इत्यर्थः । पादचारिणं
 
लघुदीपिका ।
 
नैर्हिंसोत्पादनैः । 'व्यालो दुष्टगजः प्रोक्तः' इति हलायुधः । रसाधानं विषाधानं तीक्ष्णकर्मणि घातकः' इति वैजयन्ती । 'वानवास्यो वनप्रभुः' । अस्मादृशैश्च
 
[^१]G. 'वधूत्तमान्'.