2023-08-26 06:41:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
[अष्टमः
 

 
पतेरवन्तिदेवस्यात्मनाटकीयां क्ष्मातलोर्वशीं नाम चन्द्रपालिता-

दिभिरतिप्रशस्तनृत्यकौशलामाहूयानन्तवर्मा नृत्यमद्राक्षीत् । अति-

रक्तश्च भुक्तवानिमां मं[^१]मधुमत्ताम् । अश्मकेन्द्रस्तु कुन्तलपति-

मेकान्ते समभ्यधत्त -प्रमत्त
"प्रमत्त एष राजा कलत्राणि नः

परामृशति । कियत्यवज्ञा सोढव्या । मम शतमस्ति हस्तिनाम्,

पञ्चशतानि च ते । तदावां संभूय मुरलेशं वीरसेनमृची-
केशमेकवीरं कोङ्कणपतिं कुमारगुप्तं नासिक्यनाथं च नाग-

पालमुपजपाव । ते चावश्यमस्याविनयमसहमाना अस्मन्मते-

नैवोपावर्तेरन् । अयं च वानवास्यः प्रियं मे मित्रम् । अमुनैनं

दुर्विनीतमग्रतो व्यतिषक्तं पृष्ठतः प्राहरेम । कोशवाहनं च

विभज्य गृह्णीमः' इति । हृष्टेन चामुनाभ्युपेते विंशतिं वरांशुका-

नाम्, पञ्चविंशतिं काञ्चनकुङ्कुमकम्बलानाम्, प्राभृतीकृत्याप्त-

मुखेन तैः सामन्तैः संमत्रन्त्र्य तानपि स्वमतावस्थापयत् । उत्तरेछु-
द्यु-
स्तेषां सामन्तानां वानवास्यस्य चानन्तवर्मा नयद्वेषादामिषत्वम-

गतम् । वसन्तभानुश्च 'तत्कोशवाहनमवशीर्णमात्माधिष्ठितमेव

कृत्वा यथाबलं च विभज्य गृह्णीत । युष्मद्नुज्ञया येन-

केनचिदंशेनाहं तुष्यामि' इति शाठ्यात्सर्वानुवर्ती, तेनैवामि-

षेण निमित्तीकृतेनोत्पादितकलह: सर्वसामन्तानध्वंसयत् । तदीयं

च सर्वस्वं स्वयमेवाग्रसत् । वानवास्यं केनचिदंशेनानुगृह्य प्रत्या-

वृत्य सर्वमनन्तवर्मराज्यमात्मसादकरोत् ।
 
M
 
२७०
 
-
 

अस्मामिश्चान्तरे मन्त्रिवृद्धो वसुरक्षितः कैश्चिन्मौलैः संभूय बाल-

मेनं भास्करवर्माणम्, अस्यैव ज्यायसीं भगिनीं त्रयोदशवर्षा मञ्ज-
जु-
वादिनीम्, अनयोश्च मातरं महादेवीं वसुंधरामादायापसर्पन्नाप-

दोऽस्या भावितया दाहज्वरेण देहमजहात् । अस्मादृशैर्मित्रैस्तु नीत्वा

 
पदचन्द्रिका ।
 

 
आत्मनाटकीयां स्वीयनृत्याङ्गनाम् । संभूय मिलित्वा प्राभृतीकृत्योपायनीकृत्य ।
अस्मिन्निति । अपसर्पन्निर्गच्छन् । द्वैमातुराय । सापत्न भ्रात्र इत्यर्थः । पादचारिणं

 
लघुदीपिका ।
 

 

 
नैर्हिंसोत्पादनैः । 'व्यालो दुष्टगजः प्रोक्तः' इति हलायुधः । रसाधानं विषाधानं
तीक्ष्णकर्मणि घातकः' इति वैजयन्ती । 'वानवास्यो वनप्रभुः' । अस्मादृशै
 
पाठा०-
श्च
 
[^
]G. 'वधूत्तमान्'.