This page has not been fully proofread.

दशकुमारचरितम् ।
 
[अष्टमः
 

 
पतेरवन्तिदेवस्यात्मनाटकीयां क्ष्मातलोर्वशीं नाम चन्द्रपालिता-
दिभिरतिप्रशस्तनृत्यकौशलामाहूयानन्तवर्मा नृत्यमद्राक्षीत । अति-
रक्तश्च भुक्तवानिमां मंधुमत्ताम् । अश्मकेन्द्रस्तु कुन्तलपति-
मेकान्ते समभ्यधत्त -प्रमत्त
"प्रमत्त एष राजा कलत्राणि नः
परामृशति । कियत्यवज्ञा सोढव्या । मम शतमस्ति हस्तिनाम्,
पञ्चशतानि च ते । तदावां संभूय मुरलेशं वीरसेनमृची-
केशमेकवीरं कोङ्कणपतिं कुमारगुप्तं नासिक्यनाथं च नाग-
पालमुपजपाव । ते चावश्यमस्याविनयमसहमाना अस्मन्मते-
नैवोपावर्तेरन् । अयं च वानवास्यः प्रियं मे मित्रम् । अमुनैनं
दुर्विनीतमयतो व्यतिषक्तं पृष्ठतः प्राहरेम । कोशवाहनं च
विभज्य गृह्णीमः' इति । हृष्टेन चामुनाभ्युपेते विंशतिं वरांशुका-
नाम्, पञ्चविंशतिं काञ्चनकुङ्कुमकम्बलानाम्, प्राभृतीकृत्याप्त-
मुखेन तैः सामन्तैः संमत्रय तानपि स्वमतावस्थापयत् । उत्तरेछु-
स्तेषां सामन्तानां वानवास्यस्य चानन्तवर्मा नयद्वेषादामिषत्वम-
गतम् । वसन्तभानुश्च 'तत्कोशवाहनमवशीर्णमात्माधिष्ठितमेव
कृत्वा यथाबलं च विभज्य गृह्णीत । युष्मद्नुज्ञया येन-
केनचिदंशेनाहं तुष्यामि' इति शाठ्यात्सर्वानुवर्ती, तेनैवामि-
षेण निमित्तीकृतेनोत्पादितकलह: सर्वसामन्तानध्वंसयत् । तदीयं
च सर्वस्वं स्वयमेवामसत् । वानवास्यं केनचिदंशेनानुगृह्य प्रत्या-
वृत्य सर्वमनन्तवर्मराज्यमात्मसादकरोत् ।
 
M
 
२७०
 
-
 
अस्मान्तरे मन्त्रिवृद्धोवसुरक्षितः कैश्चिन्मौलैः संभूय बाल-
मेनं भास्करवर्माणम्, अस्यैव ज्यायसीं भगिनीं त्रयोदशवर्षा मञ्ज-
वादिनीम्, अनयोश्च मातरं महादेवीं वसुंधरामादायापसर्पन्नाप-
दोऽस्या भावितया दाहज्वरेण देहमजहात् । अस्मादृशैर्मित्रैस्तु नीत्वा
पदचन्द्रिका ।
 
आत्मनाटकीयां स्वीयनृत्याङ्गनाम् । संभूय मिलिवा प्राभृतीकृत्योपायनीकृत्य ।
अस्मिन्निति । अपसर्पन्निर्गच्छन् । द्वैमातुराय । सापत्न भ्रात्र इत्यर्थः । पादचारिणं
लघुदीपिका ।
 

 
नैहिंसोत्पादनैः । 'व्यालो दुष्टगजः प्रोक्तः' इति हलायुधः । रसाधानं विषाधानं
तीक्ष्णकर्मणि घातकः' इति वैजयन्ती । 'वानवास्यो वनप्रभुः । अस्मादृशैव
 
पाठा०-१ 'वधूत्तमान्'.