2023-08-29 13:34:03 by Lakshmainarayana achar
This page has been fully proofread twice.
संकेतेषु प्रागुपनिलीय पश्चादभिद्रुत्या कीर्तनीयैः प्रमापणैः, उपप्र-
लोभ्य बिलप्रवेशेषु निधानखननेषु मन्त्रसाधनेषु च विघ्नव्याज-
साध्यैर्व्यापादनैः, मत्तगजाधिरोहणाय प्रेर्य [^१]प्रत्यपायनिवर्तनैः,
व्यालहस्तिनं कोपयित्वा लक्ष्यीकृतमुख्यमण्डले [^२]ष्वक्रमपणैः, दायाद्यर्थे विवदमानानुपांशु हत्वा प्रतिपक्षेष्वयशःपातनैः, सामन्तपुरजनपदेष्वयथावृत्तानप्रकाशमभिप्रहृत्य तद्वैरिनामघोषणैः, [^३]योग्याङ्गनाभिरहर्निशमभिरमय्य राजयक्ष्मोत्पादनैः, वस्त्राभरणमाल्याङ्गरागादिषु रसविधानकौशलैः, चिकित्सामुखेनामयोपबर्हणैरन्यैश्चाभ्युपायैरश्म केन्द्रप्रयुक्तास्ती- क्ष्णरसेन्द्रादयः प्रक्षपितप्रवीरमनन्तवर्मकटकं जर्जरमकुर्वन् ।
अथ वसन्तभानुर्भानुवर्माणं नाम वानवास्यं प्रोत्साह्यानन्त-
वर्मणा व्यग्राहयत् । तत्परामृष्टराष्ट्रपर्यन्तश्चानन्तवर्मा तमभियोक्तुं
बलसमुत्थानमकरोत् । सर्वसामन्तेभ्यश्चाश्मकेन्द्रः प्रागुपेत्यास्य
प्रियतरोऽभूत् । अपरेऽपि सामन्ताः समगंसत । गत्वा चाभ्यर्णे
नर्मदारोधसि न्यविशन् । तस्मिंश्चावसरे महासामन्तस्य कुन्तल-
पदचन्द्रिका ।
मम् । उपनिलीय । लीनतां प्रापय्येत्यर्थः । प्रमापणैः ।
निवर्तनौर्हिंसोत्पादनैः । व्यालहस्तिनं दुष्टदन्तिनम् । 'व्यालो दुष्टगजः प्रोक्तः' इति हलायुधः । अक्रमपणैरक्रमग्लहै: । 'पणो वराटमाने स्यान्मूल्ये कार्षापणे ग्लहे' इति विश्वः । उपांशु रहसि । घोषणैर्डिण्डिमैः । अहर्निशं रात्रिंदिवम् । राजयक्ष्मा रोगविशेषः ।
रसविधानम् 'रसाधानं विषाधानं तीक्ष्णा मर्मणि घातकाः' इति वैजयन्ती । आमयो रोगः । उपबर्हणं वर्धनम् ॥
अथेति । वानवास्यम् 'वानवास्यो वनप्रभुः' इति । प्रोत्साह्य । आनन्द्येत्यर्थः । अभियोक्तुं पराभवितुम् । समगंसत 'गम्ऌ गतौ समुपसर्गः । लुङ् । 'समो गम्यृच्छिभ्याम्' (१।३।२९) इत्यात्मनेपदम् । मिलिता इत्यर्थः । अभ्यर्णे समीपे ।
भूषणा ।
विच्छन्ना अनुयातारो येषां तत्त्वेनैकीकृतानामेकाकीकृतानाम् । भर्तृभयमपहृत्य दूरीकृत्य । तत्साहसं जारसाहसम् । प्रमापणैर्मारणैः । अमर्षणैः प्रेरणैः । तत्परामृष्टो वानवास्यपरामृष्टो राष्ट्रप्रान्तभावो यस्य सः । व्यतिषक्तं कार्यान्ते व्या-
लघुदीपिका ।
शतात्परं सहस्राधिगावतत्पुरुषायिता' इति वैजयन्ती मध्येऽयनमिति मार्गमध्य इत्यर्थः । 'अयनं वर्त्ममार्गाध्वपन्थानः' । प्रमापणैर्हिंसनैः । प्रत्यपायनिवर्त-
[^१]G. 'प्रत्यवायनिर्वर्तनै:'.
[^२]G. 'अपक्रमणैः', 'अमर्षणैः'.
[^३]G. योगाङ्गानाभि:'.
[^४]G. 'उपबृंहणैः .