This page has not been fully proofread.

J
 
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । २६९
संकेतेषु प्रागुपनिलीय पश्चादभिद्रुत्या कीर्तनीयैः प्रमापणैः, उपप्र-
लोभ्य विलप्रवेशेषु निधानखननेषु मत्रसाधनेषु च विघ्नव्याज-
साध्यैर्व्यापादनैः, मत्तगजाधिरोहणाय प्रेर्य प्रेत्यपायनिवर्तनैः,
व्यालहस्तिनं कोपयित्वा लक्ष्यीकृतमुख्यमण्डलेष्वक्रमपणैः, दाया-
द्यर्थे विवदमानानुपांशु हत्वा प्रतिपक्षेष्वयशःपातनैः, सामन्तपुर-
जनपदेष्वयथावृत्तानप्रकाशमभिप्रहृत्य तद्वैरिनामघोषणैः, योग्या-
ङ्गनाभिरहर्निशमभिरमय्य राजयक्ष्मोत्पादनैः, वस्त्राभरणमाल्या-
ङ्गरागादिषु रसविधानकौशलैः, चिकित्सामुखेनामयोपबर्हणैर-
न्यैश्चाभ्युपायैरश्म केन्द्रप्रयुक्तास्तीक्ष्णरसेन्द्रादयः प्रक्षपितप्रवीरमन-
न्तवर्मकटकं जर्जरमकुर्वन् ।
 
अथ वसन्तभानुर्भानुवर्माणं नाम वानवास्यं प्रोत्साह्यानन्त-
वर्मणा व्यग्राहयत् । तत्परामृष्टराष्ट्रपर्यन्तश्चानन्तवर्मा तमभियोक्तुं
बलसमुत्थानमकरोत् । सर्वसामन्तेभ्यश्चाइमकेन्द्रः प्रागुपेत्यास्य
प्रियतरोऽभूत् । अपरेऽपि सामन्ताः समगंसत । गत्वा चाभ्यर्णे
नर्मदारोधसि न्यविशन् । तस्मिंश्चावसरे महासामन्तस्य कुन्तल-
पदचन्द्रिका ।
 
मम् । उपनिलीय । लीनतां प्रापय्येत्यर्थः । प्रमापणैः । निवर्तनौहँसोत्पादनैः ।
व्यालहस्तिनं दुष्टदन्तिनम् । 'व्यालो दुष्टगजः प्रोक्तः' इति हलायुधः । अक्रमप-
गैरकमग्लहै: । 'पणो वराटमाने स्यान्मूल्ये कार्षापणे ग्लहे' इति विश्वः । उपांशु
रहसि । घोषणैर्डिण्डिमैः । अहर्निशं रात्रिंदिवम् । राजयक्ष्मा रोगविशेषः ।
रसविधानम् 'रसाधानं विषाधानं तीक्ष्णा मर्मणि घातकाः' इति वैजयन्ती ।
आमयो रोगः । उपबर्हणं वर्धनम् ॥
 
अथेति । वानवास्यम् 'वानवास्यो वनप्रभुः' इति । प्रोत्साह्य । आनन्येत्यर्थः ।
अभियोक्तुं पराभवितुम् । समगंसत 'गम्ऌ गतौ समुपसर्गः । लुङ् । 'समो
गम्यृच्छिभ्याम्' (१।३।२९) इत्यात्मनेपदम् । मिलिता इत्यर्थः । अभ्यर्णे समीपे ।
भूषणा ।
 
विच्छन्ना अनुयातारो येषां तत्त्वेनैकीकृतानामेकाकीकृतानाम् । भर्तृभयमपहृत्य
दूरीकृत्य । तत्साहसं जारसाहसम् । प्रमापणर्मारणैः । अमर्षणैः प्रेरणैः । तत्प-
रामृष्टो वानवास्यपरामृष्टो राष्ट्रप्रान्तभावो यस्य सः । व्यतिषतं कार्यान्ते व्या-
लघुदीपिका ।
 
शतात्परं सहस्राधिगावतत्पुरुषायिता' इति वैजयन्ती मध्येऽयनमिति मार्ग-
मध्य इत्यर्थः । 'अयनं वर्त्ममार्गाध्वपन्थानः' । प्रमापणैर्हिसनैः । प्रत्यपायनिवर्त-
पाठा० - १ 'प्रत्यवायनिर्वर्तनै:'. २ 'अपक्रमणैः', 'अमर्षणैः'. ३ योगा-
शनाभि:'. ४ 'उपबृंहणैः .
 
M