2023-05-24 05:17:07 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१६
 
दशकुमारचरितम् ।
 
[ पूर्वपीठिकायां
 
ताहं महुद्दुहितापि तीव्रगतिं भूपतिमनुगन्तुमक्षमे अभूव । तत्र

विवृतवदनः कोऽपि रूपी कोप इव व्याघ्रः शीघ्रं मामाघ्रातुमा-

गतवान् । भीताहमु [^१]दुमैप्ग्रग्राव्णि स्खलन्ती पर्यपतम् । मदीयपा-

णिभ्रष्टो बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत ।

तच्छवाकर्षिणोऽमर्पिषिणो व्याघ्रस्य प्राणान्बाणो बाणासनयन्त्रमुक्तो

पाहरत् । विलोलालको बालकोऽपि शबरैरादाय कुत्रचिदुपा-

नीयत । कुमारमपरमुद्वहन्ती महुद्दुहिता कुत्र गता न जाने । साहं

मोहूंहं गता केनापि कृपालुना वृष्णिपालेन स्वकुटीरमावेश्य विरो-

पितव्रणाभवम् । ततः स्वस्थीभूय भूयः क्ष्माभर्तुरन्तिकमुपतिष्ठा-

सुरसहायतया दुहितुरनभिज्ञाततया च व्याकुलीभवामि' इत्य-

भिधाना 'एकाकिन्यपि स्वामिनं गमिष्यामि' इति सा तदैव

निरगात् । अहमपि भवन्मित्रस्य विदेहनाथस्य विपन्निमित्तं

विषादग्रनुभवंस्तदन्वयाङ्कुरं कुमारमन्विष्यंस्तदैकं चण्डिकामन्दिरं
सुन्दरं प्रागाम् । तत्र संततमेवंविधविजयसिद्धये कुमारं देवतोपहारं
करिष्यन्तः किराताः 'महीरुहशाखावलम्बितमेनमसिलतया वा,
 
**
 
Ak
 

 
यतौ' (८/२।१९ ) इति लादेशः । लुङ् । तस्येमौ तदीयौ च तावर्भकोकौ तयोः ।
यमयोः सहजातयोः । धात्र्या उपमातुर्भावस्तेन । तीव्रा गतिर्यस्य तम् । अक्षमे
अभूव । प्रगृह्यत्वान्न संधिः । विवृतं व्यात्तं वदनं येन सः । रूपी मूर्तः । आघ्रातुं
नाशयितुम् । उद्गतान्यप्ग्राणि यस्यैतादृशो यो प्ग्रावा तस्मिन् । 'उदग्रपाणिः' इति

पाठ उदग्रः पाणिर्यस्याः सा इत्यहमित्यस्य विशेषणं द्रष्टव्यम् । भ्रष्टव्श्च्युतः । कपिलाया
गोः शवः कुणपस्तस्य क्रोडमङ्कदेशम् । अभ्यलीयत प्रच्छन्नोऽभूत् । बाणासनं धनु-
स्तदेव यन्त्रं तस्मान्मुक्तः । अपाहरज्जहार । विलोलाश्ञ्चञ्चला अलका श्चूर्णकुन्तला

यस्य सः । शबरैर्वनवासिभिः । आदाय गृहीत्वा । कुत्रचिदनिर्दिष्टे । अज्ञात इति
यावत् । उद्वहन्ती धारयन्ती । सेति पूर्वनिर्दिष्टा मोहं गता विगतसंज्ञा । वृष्णिपा-
लेन मेषपालेन । खकुटीरं स्ववासगृहम् । आवेश्य । णिजन्ताल्ल्यप् । भूयः पुनः ।
क्ष्माभर्तुर्नरेन्द्रस्य । उपतिष्ठासुरुपस्थातुमिच्छुः । असहायतया सहायाभावेन ।

अभिदघाधानाभिधत्तेऽसौ । एकाकिन्यसहाया । तदैव तस्मिन्नेव क्षणे । विषादं खेदम् ।
तस्यान्वयो वंशस्तस्याङ्कुरः प्ररोहः । चण्डिकाया मन्दिरमायतनम् । एवं विधा
प्रकारो यस्य तादृशो यो विजयस्तस्य सिद्धिस्तस्यै देवताया उपाहारस्तम् । महीरुहो

वृक्षस्तस्य शाखायामवलम्बितम् । असिलता खड्गः । इदं केचित्किराता आहुः ।
 
पाठा० -

 
[^
]G. 'उदमपाणि:'.