2023-05-18 02:09:53 by ambuda-bot
This page has not been fully proofread.
१६
दशकुमारचरितम् ।
[ पूर्वपीठिकायां
ताहं महुहितापि तीव्रगतिं भूपतिमनुगन्तुमक्षमे अभूव । तत्र
विवृतवदनः कोऽपि रूपी कोप इव व्याघ्रः शीघ्रं मामाघ्रातुमा-
गतवान् । भीताहमुदुमैप्राव्णि स्खलन्ती पर्यपतम् । मदीयपा-
णिभ्रष्टो बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत ।
तच्छवाकर्षिणोऽमर्पिणो व्याघ्रस्य प्राणान्बाणो बाणासनयन्त्रमुक्तो
उपाहरत् । विलोलालको बालकोऽपि शबरैरादाय कुत्रचिदुपा-
नीयत । कुमारमपरमुद्वहन्ती महुहिता कुत्र गता न जाने । साहं
मोहूं गता केनापि कृपालुना वृष्णिपालेन स्वकुटीरमावेश्य विरो-
पितव्रणाभवम् । ततः स्वस्थीभूय भूयः क्ष्माभर्तुरन्तिकमुपतिष्ठा-
सुरसहायतया दुहितुरनभिज्ञाततया च व्याकुलीभवामि इत्य-
भिधाना 'एकाकिन्यपि स्वामिनं गमिष्यामि' इति सा तदैव
निरगात् । अहमपि भवन्मित्रस्य विदेहनाथस्य विपन्निमित्तं
विषादग्रनुभवस्तदन्वयाङ्कुरं कुमारमन्विष्यंस्तदैकं चण्डिकामन्दिरं
सुन्दरं प्रगाम् । तत्र संततमेवंविधविजयसिद्धये कुमारं देवतोपहारं
करिष्यन्तः किराताः 'महीरुहशाखावलम्बितमेनमसिलतया वा,
**
Ak
यतौ' (८/२।१९ ) इति लादेशः । लुङ् । तस्येमौ तदीयौ च तावर्भको तयोः ।
यमयोः सहजातयोः । धात्र्या उपमातुर्भावस्तेन । तीव्रा गतिर्यस्य तम् । अक्षमे
अभूव । प्रगृह्यत्वान्न संधिः । विवृतं व्यात्तं वदनं येन सः । रूपी मूर्तः । आघ्रातुं
नाशयितुम् । उद्गतान्यप्राणि यस्यैतादृशो यो प्रावा तस्मिन् । 'उदग्रपाणिः' इति
पाठ उदग्रः पाणिर्यस्याः सा इत्यहमित्यस्य विशेषणं द्रष्टव्यम् । भ्रष्टव्युतः । कपिलाया
गोः शवः कुणपस्तस्य क्रोडमङ्कदेशम् । अभ्यलीयत प्रच्छन्नोऽभूत् । बाणासनं धनु-
स्तदेव यन्त्रं तस्मान्मुक्तः । अपाहरजहार । विलोलाञ्चञ्चला अलका चूर्णकुन्तला
यस्य सः । शबरैर्वनवासिभिः । आदाय गृहीत्वा । कुत्रचिदनिर्दिष्टे । अज्ञात इति
यावत् । उद्वहन्ती धारयन्ती । सेति पूर्वनिर्दिष्टा मोहं गता विगतसंज्ञा । वृष्णिपा-
लेन मेषपालेन । खकुटीरं स्ववासगृहम् । आवेश्य । णिजन्ताल्यप् । भूयः पुनः ।
क्ष्माभर्तुर्नरेन्द्रस्य । उपतिष्ठासुरुपस्थातुमिच्छुः । असहायतया सहायाभावेन ।
अभिदघानाभिधत्तेऽसौ । एकाकिन्यसहाया । तदैव तस्मिन्नेव क्षणे । विषादं खेदम् ।
तस्यान्वयो वंशस्तस्याङ्कुरः प्ररोहः । चण्डिकाया मन्दिरमायतनम् । एवं विधा
प्रकारो यस्य तादृशो यो विजयस्तस्य सिद्धिस्तस्यै देवताया उपाहारस्तम् । महीरुहो
वृक्षस्तस्य शाखायामवलम्बितम् । असिलता खड्गः । इदं केचित्किराता आहुः ।
पाठा० - १ 'उदमपाणि:'.