2023-08-25 07:11:33 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मलम्, अवलम्बितुं च लोकतन्त्रम्' इति । असावपि गुरूप-
देशमिवात्यादरेण तस्य मतमन्ववर्तत । तच्छीलानुसारिण्यश्च
प्रकृतयो विशृङ्खलमसेवन्त व्यसनानि । सर्वश्च समानदोषतया
न कस्यचिच्छिद्रान्वेषणायायतिष्ट । समानभर्तृप्रकृतयस्तन्त्राध्यक्षाः
स्वानि कर्मफलान्यभक्षयन् । ततः क्रमादायद्वाराणि व्यशीर्यन्त ।
व्ययमुखानि विटवैधेयतया विभोरहरहर्व्यवर्धन्त । सामन्तपौर-
जानपदमुख्याश्च समानशीलतयोपारूढविश्रम्भेण राज्ञा [^१]सजायाः पानगोष्ठीष्वभ्यन्तरीकृताः स्वं स्वमाचारमत्यचारिषु: । तदङ्गनासु चानेकापदेशपूर्वमपाचरन्नरेन्द्रः । तदन्तःपुरेषु चामी भिन्नवृत्तेषु मन्दत्रासा बहुसुखैरवर्तन्त । सर्वश्च कुलाङ्गनाजनः [^२]सुलभभङ्गिभाषणरतो भग्नचारित्रयन्त्रणस्तृणायापि न गणयित्वा भर्तॄन्धातृगणमन्त्रणान्यशृणोत् । तन्मूलाश्च कलहाः सामर्षाणामुदभवन् । अहन्यन्त दुर्बला बलिभिः । अपहृतानि धनवतां धनानि तस्करादिभिः । अपहृतपरिभूतयः प्रहताश्च पातकपथाः । हतबान्धवा हृतवित्ता वधबन्धातुराश्च मुक्तकण्ठ- माक्रोशन्नकण्ठ्यः प्रजाः ।
 
पदचन्द्रिका ।
 
क्षमाणि । उपशमः शान्तिः । लोकतन्त्रम् । 'तन्त्रं कुटुम्बकृत्ये स्यात्कारणे च परिच्छदे । शास्त्रे प्रधाने सिद्धान्ते तन्तुवाये गदोत्तमे । तत्त्वादिसाधनोपाये श्रुतिशाखान्तरेऽपि च ' इति विश्वः । प्रकृतयः प्रजाः । विशृङ्खलं बन्धशून्यम् । छिद्रान्वेषणाय ।दोषगवेषणायेत्यर्थः । तन्त्राध्यक्षाः सेनापतयः । आयद्वाराण्यागमोपायाः । व्ययमुखानि व्ययप्रभृतीनि । विटस्य षिङ्गस्य । वैधेयतया बालिशतया । 'मूर्खवैधेयबालिशाः' इत्यमरः । 'विधेयतया' इति पाठे विनयग्राहितया । 'विधेयो विनयग्राही' इत्यमरः । अहरहः प्रतिदिवसम् । सजायाः सन्त्रीकाः । पानगोष्ठी मद्यशाला । अत्यचारिषुरतिक्रमयामासुः । मन्दत्रासाः । निर्भया इत्यर्थः । धातॄणां गणा
जारसमूहाः । 'धाता जारे विधातरि' इत्यजयः । अश्रुकण्ठ्यः । गद्गदयुक्ता इत्यर्थः ।
 
भूषणा ।
 
त्तत्कर्मणि लब्धानि राजधनानि । सुलभभङ्गीति । वक्ररचना वक्रोक्तिः । स्वैरि-
 
लघुदीपिका ।
 
यन्ती । तन्त्राध्यक्षाः सेनापतयः । सजायाः जायासहिताः । 'जायाया निङ्' (५।४।१३४) इति समासान्तः । धाता उपपतिः । 'धाता जारे विधातरि' इत्यजयः ।
 
[^१]G. 'सजानयः', 'सजानपादाः'.
[^२]G. 'सुलग्नभङ्गि'. 'पांसुलजनभङ्गि', 'सुलग्नसुलभभङ्गि',