2023-08-25 07:08:21 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
२६७
 
मलम्, अवलम्बितुं च लोकतन्त्रम्' इति । असावपि गुरूप-

देशमिवात्यादरेण तस्य मतमन्ववर्तत । तच्छीलानुसारिण्यश्च

प्रकृतयो विशृङ्खलमसेवन्त व्यसनानि । सर्वश्च समानदोषतया

न कस्यचिच्छिद्रान्वेषणायायतिष्ट । समानभर्तृप्रकृतयस्तन्त्राध्यक्षाः

स्वानि कर्मफलान्यभक्षयन् । ततः क्रमादायद्वाराणि व्यशीर्यन्त ।

व्ययमुखानि विटवैधेयतया विभोरहरहर्व्यवर्धन्त । सामन्तपौर-

जानपदमुख्याश्च समानशीलतयोपारूढ विश्रम्भेण राज्ञा [^१]सजायाः
पानगोष्ठीष्वभ्यन्तरीकृताः स्वं स्वमाचारमत्यचारिपुःषु: । तदङ्गनासु
चानेकापदेशपूर्वमपाचरन्नरेन्द्रः । तदन्तःपुरेषु चामी भिन्नवृत्तेषु
मन्दत्रासा बहुसुखैरवर्तन्त । सर्वश्च कुलाङ्गनाजनः [^२]सुलभभङ्गि-
भाषणरतो भग्नचारित्रयन्त्रणस्तृणायापि न गणयित्वा भर्तॄन्धातृ-
गणमन्त्रणान्यशृणोत् । तन्मूलाञ्श्च कलहाः सामर्षाणामुदभवन् ।
अहन्यन्त दुर्बला बलिभिः । अपहृतानि धनवतां धनानि तस्क-
रादिभिः । अपहृतपरिभूतयः प्रहताश्च पातकपथाः । हतबान्धवा
हृतवित्ता वधबन्धातुराश्च मुक्तकण्ठमाक्रोशन्नकण्ठ्यः प्रजाः ।

 
पदचन्द्रिका ।
 

 
क्षमाणि । उपशमः शान्तिः । लोकतन्त्रम् । 'तन्त्रं कुटुम्बकृत्ये स्यात्कारणे च परि-
च्छदे । शास्त्रे प्रधाने सिद्धान्ते तन्तुवाये गदोत्तमे । तत्त्वादिसाधनोपाये श्रुतिशा-
खान्तरेऽपि च ' इति विश्वः । प्रकृतयः प्रजाः । विशृङ्खलं बन्धशून्यम् । छिद्रान्वे-
षणाय । दोषगवेषणायेत्यर्थः । तन्त्राध्यक्षाः सेनापतयः । आयद्वाराण्यागमोपायाः ।
व्ययमुखानि व्ययप्रभृतीनि । विटस्य विज्ञषिङ्गस्य । वैधेयतया बालिशतया । 'मूर्ख-
वैधेयबालिशाः' इत्यमरः । 'विधेयतया' इति पाठे विनयग्राहितया । 'विधेयो विन-
यग्राही' इत्यमरः । अहरहः प्रतिदिवसम् । सजायाः सन्त्रीकाः । पानगोष्ठी मद्य-
शाला । अत्यचारिषुरतिक्रमयामासुः । मन्दत्रासाः । निर्भया इत्यर्थः । धातॄणां गणा

जारसमूहाः । 'धाता जारे विधातरि' इत्यजयः । अश्रुकण्ठ्यः । गद्गदयुक्ता इत्यर्थः ।
 

 
भूषणा ।
 

 
त्
तत्कर्मणि लब्धानि राजधनानि । सुलभभङ्गीति । वक्ररचना वक्रोक्तिः । खैस्वैरि-

 
लघुदीपिका ।
 

 
यन्ती । तन्त्राध्यक्षाः सेनापतयः । सजायाः जायासहिताः । 'जायाया निङ्' (५
१३४) इति समासान्तः । धाता उपपतिः । 'धाता जारे विधातरि' इत्यजयः ।
 
पाठा० -

 
[^
]G. 'सजानयः', 'सजानपादाः'.
[^
]G. 'सुलग्नभङ्गि'. 'पांसुलजन-
भङ्गि', 'सुलग्नसुलभभङ्गि',