2023-08-29 13:35:34 by Lakshmainarayana achar

This page has been fully proofread twice.

लब्धानुरक्षणरक्षितोपभोगभुक्तानुसंधानरुष्टानुनयादिष्वजस्रमभ्युपा-यरचनया बुद्धिवाचो: पाटवम्, उत्कृष्टशरीरसंस्कारात्सुभगवेष-
तया लोकसंभावनीयतया परं सुहृत्प्रियत्वम्, गरीयसी परिजन-
व्यपेक्षा, स्मितपूर्वाभिभाषित्वम्, उद्रिक्तसत्त्वता, दाक्षिण्यानुवर्त-
नम्, अपत्योत्पादनेनोभयलोकश्रेयस्करत्वमिति । पानेऽपि नानाविधरागभङ्गपटीयसामासवानामासेवनात्स्पृहणीयवयोव्यवस्थापनम्,अहंकारप्रकर्षादशेषदुःखतिरस्करणम,अङ्गजरागदीपनादङ्गनोपभोगशक्तिसंधुक्षणम्, अपराध [^१]प्रमार्जनान्मनःशल्योन्मा- र्जनम्, अश्राव्यशंसिभिरनर्गलप्रलापैर्विश्वासोपबृंहणम्, मत्सराननुबन्धादानन्दैकतानता, शब्दादीनामिन्द्रियार्थानां सातत्येनानुभव:, संविभागशीलतया सुहृद्वर्ग [^२]संवर्गणम्, अनुपमानमङ्गलावण्यम्, अनुत्तराणि विलसितानि, भयार्तिहरणाच्च साङ्ग्रामिकत्वमिति । वाक्पारुष्यं दण्डो दारुणो दूषणानि चार्थानामेव यथावकाशमौपकारिकाणि । न हि मुनिरिव नरपतिरुपशमरतिरभिभवितुमरिकुल-
 
पदचन्द्रिका ।
 
अलब्धोपलब्धिरप्राप्तप्राप्तिः । लब्धानुरक्षणं प्राप्तस्य पालनम् । भुक्तानुसंधानं भुक्तस्मृतिः । रुष्टस्यानुनयः, क्रुद्धस्य समाधानम् । वुद्धिवाचोर्मतिवचनयोः । पाटवं पटुत्वम् । उत्कृष्टो यः शरीरसंस्कारः । पानेऽपीति । आसवानां मद्यानाम् ।
अङ्गजो मदनः । राग इच्छा । दीपनं वृद्धिः । अङ्गनाः स्त्रियः । संधुक्षणमुद्द्योतनम् । अनर्गला यथेष्टा ये प्रलापा अनर्थकवचनानि तैः । मत्सरस्याननुबन्धादधारणात् । एकतानता । तत्परतेत्यर्थः । 'एकतानोऽनन्यवृत्तिः' इत्यमरः । सततस्य भावः सातत्यम् । संवर्गणं संयोजनम् । अनुपमानमसदृशम् । सङ्ग्रामे साधु साङ्ग्रामिकम् । परुषस्य भावः पारुष्यम् ।औपकारिकाण्युपकार-
 
भूषणा ।
 
निश्चिताभिमानः । अकृपणं दैन्यशून्यम् । अपराधप्रमार्जनादिति । परकृतापराधविस्मरणात् । सातत्येनानुभव इति । तदेकतानताविशदीकरणमेतत् । 'पानसमय आगतेभ्यो दीयन्त आसवाः' इति संप्रदायवशादत्र विभागशीलता ।
संवर्गणमेकीकरणम् । पाने गुणान्तरमाह - वाक्पारुष्यमिति । कर्मफलानि
 
लघुदीपिका ।
 
भवनीयत्वम् । उत्कृष्टेषु संक्रन्दनादिनिमित्तेषु । 'एकतानोऽनन्यवृत्तिः' । संवर्गणं संयोजनम् । 'समाहर्ता जनाध्यक्षः स्वाम्युक्तो यामनायकः' इति वैज-
 
[^१]G. 'प्रमार्जनान्मानशल्यो'.
[^२]G. 'संवर्धनम्.