2023-08-24 15:42:22 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 

 
,
 
लब्धानुरक्षणरक्षितोपभोगभुक्तानुसंधानरुष्टानुनयादिष्वजस्रमभ्युपा-
यरचनया बुद्धिवाचो: पाटवम्, उत्कृष्टशरीरसंस्कारात्सुभगवेष-

तया लोकसंभावनीयतया परं सुहृत्प्रियत्वम्, गरीयसी परिजन-

व्यपेक्षा, स्मितपूर्वाभिभाषित्वम्, उद्रिक्तसत्त्वता, दाक्षिण्यानुवर्त-

नम्, अपत्योत्पादनेनोभयलोकश्रेयस्करत्वमिति । पानेsपि नानाविध -
रागभङ्गपटीय सामासवानामा सेवनात्स्पृहणीयवयोव्यवस्थापनम्,
अहंकारप्रकर्षादशेषदुःखतिरस्करणम् म,अङ्गजरागदीपनादङ्गनोप-
भोगशक्तिसंधुक्षणम्, अपराध [^१]प्रमार्जनान्मनःशल्योन्मा- र्जनम्, अश्रा-
व्यशंसिभिरनर्गल प्रलापैर्विश्वासोपबृंहणम्, मत्सराननुबन्धादानन्दै -
कतानता, शब्दादीनामिन्द्रियार्थानां सातत्येनानुभव:, संविभाग-
शीलतया सुहृदूर्गद्वर्ग [^२]संवर्गणम्, अनुपमानमङ्गलावण्यम्, अनुत्त-
राणि विलसितानि, भयार्तिहरणाच्च साङ्ग्रामिकत्वमिति । वाक्पा-
रुष्यं दण्डो दारुणो दूषणानि चार्थानामेव यथावकाशमौपका-
रिकाणि । न हि मुनिरिव नरपतिरुपशमरतिरभिभवितुमरिकुल-
२६६
 
[ अष्टमः
 

 
पदचन्द्रिका ।
 
:।
 

 
अलब्धोपलब्धिरप्राप्तप्राप्तिः । लब्धानुरक्षणं प्राप्तस्य पालनम् । भुक्तानुसंधानं
भुक्तस्मृतिः । रुष्टस्यानुनयः, क्रुद्धस्य समाधानम् । वुद्धिवाचोर्मतिवचनयोः । पाटवं
पटुत्वम् । उत्कृष्टो यः शरीरसंस्कारः । पानेऽपीति । आसवानां मद्यानाम् ।

अङ्गजो मदनः । राग इच्छा । दीपनं वृद्धिः । अङ्गनाः स्त्रियः । संधुक्षणमुद्द्यो-
तनम् । अनर्गला यथेष्टा ये प्रलापा अनर्थकवचनानि तैः । मत्सरस्याननुबन्धा-
दधारणात् । एकतानता । तत्परतेत्यर्थः । 'एकतानोऽनन्यवृत्तिः' इत्यमरः ।
सततस्य भावः सातत्यम् । संवर्गणं संयोजनम् । अनुपमानमसदृशम् । सङ्ग्रामे
साधु साङ्ग्रामिकम् । परुषस्य भावः पारुष्यम् । औपकारिकाण्युपकार-

 

 
भूषणा ।
 

 
निश्चिताभिमानः । अकृपणं दैन्यशून्यम् । अपराधप्रमार्जनादिति । परकृता-
पराधविस्मरणात् । सातत्येनानुभव इति । तदेकतानताविशदीकरणमेतत् ।
'पानसमय आगतेभ्यो दीयन्त आसवाः' इति संप्रदायवशादत्र विभागशीलता ।

संवर्गणमेकीकरणम् । पाने गुणान्तरमाह - वाक्पारुष्यमिति । कर्मफलानि

 
लघुदीपिका ।
 

 
भवनीयत्वम् । उत्कृष्टेषु संक्रन्दनादिनिमित्तेषु । 'एकतानोऽनन्यवृत्तिः' । संव-
र्गणं संयोजनम् । 'समाहर्ता जनाध्यक्षः स्वाम्युक्तो यामनायकः' इति वैज-
पाठा० -

 
[^
]G. 'प्रमार्जनान्मानशल्यो'.
[^
]G. 'संवर्धनम् .
 
H