2023-08-24 15:32:51 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

लाघवादीनि, शीतोष्णवातवर्षक्षुत्पिपासासहत्वम्, सत्त्वानामवस्था-
न्तरेषु चित्तचेष्टितज्ञानम्, हरिणगवलगवयादिवघेन सस्यलोपप्र-
तिक्रिया, वृकव्याघ्रादिघातेन स्थलपथशल्यशोधनम्, शैलाटवीप्र-
देशानां विविधकर्मक्षमाणामालोचनम्, आटविकवर्गविश्रम्भणम्,
उत्साहशक्तिसंधुक्षणेन प्रत्यनीकवित्रासनमिति बहुतमा गुणाः ।
द्यूतेऽपि द्रव्यराशेस्तृणवत्त्यागादनुपमानमाशयौदार्यम्, जयपराज-
यानवस्थानाद्धर्पविषादयोरविधेयत्वम्, पौरुषैकनिमित्तस्यामर्षस्य
वृद्धिः, अक्षहस्तभूम्यादिगोचराणामत्यन्तदुरुपलक्ष्याणां कूटकर्म-
णामुपलक्षणादनन्तबुद्धिनैपुण्यम्, एकविषयोपसंहाराच्चित्तस्याति
चित्रमैकाग्र्यम्, अध्यवसायसहचरेषु साहसेष्वतिरतिः, अतिक-र्कशपुरुषप्रतिसंसर्गादनन्यधर्षणीयता, मानावधारणम्, अकृपणं
च शरीरयापनमिति । उत्तमाङ्गनोपभोगेऽप्यर्थधर्मयोः सफली-
करणम्, पुष्कलः पुरुषाभिमानः, भावज्ञानकौशलम्, अलोभकिक्लि- ष्ट-
माचेष्टितम्, अखिलासु कलासु वैचक्षण्यम्, अलब्धोपलब्धि-
 
पदचन्द्रिका ।
 
र्षात् मेदो धातुः । 'मैमेदोवृद्ध्यभावादङ्गानि लघूनि भवन्ति' इति वैद्यकम् । वर्षो वृष्टिः । क्षुत्क्षुधा। पिपासा तृषा । सत्त्वानां प्राणिनाम् । चित्तस्य मनसः । चेष्टितस्य तत्क्रियायाश्च । गवलोऽरण्यमहिषः । 'रजस्वलो वाहरिपुर्लुलायः' इत्यारभ्य 'रक्ताक्षः कासरो हंसकालीतनयकालिकौ' इत्यग्रतः 'अरण्यजोऽस्मिन्गवयः' इत्य-
भिधानचिन्तामणिवचनात् । गवयो गोसदृशः पशुः । 'गवयः स्याद्वनगवो गोसदृक्षोऽश्ववारणः' इत्यभिधानचिन्तामणिः । वृक ईहामृगः । 'कोक ईहामृगो वृकः' इत्यमरः । भाषया 'विग' इति प्रसिद्धः । शैलाटवी पर्वतवनम् । अटव्यां चरन्ति ते आटविकाः । विश्रम्भणं विश्वासोत्पादनम् । द्यूतेऽपीति । आशयौदार्यं चित्तौदार्यम् । कूटकर्मणाम् कपटकर्मणाम् ।एकविषयोपसंहारात्तदेकवृत्तित्वात् । चित्तस्य मनसः ऐकाग्र्यमे- काग्रस्य भावस्तथा । अध्यवसाय उद्योगः । साहसमद्भुतकर्म । अतिरतिः प्रीतिः । धर्षणीयताभिभवनीयत्वम् । उत्तमाङ्गनोपभोग इति । पुष्कलः श्रेयान् 'श्रेयान् श्रेष्ठः पुष्कल: स्यात्' इत्यमरः ।
भावश्चित्ताभिप्रायः । ज्ञानं ग्रन्थादिविषयम् । विचक्षणस्य भावो वैचक्षण्यम् ।
 
भूषणा ।
 
प्रतिष्ठाप्रयोजनकं स्थानममात्यत्वादिरूपम् । आटविकानां पशूनां विश्वासः । आशयौदार्यमाशयः चित्तम् । अध्यवसायो निश्चयः । मानावधारणमभिमाननिश्चयो
 
लघुदीपिका ।
 
नत्वम् । 'स्थैर्यं सत्कर्म संगतौ' इति वैजयन्ती । गवलो महिषः । धर्षणीयत्वमभि-
 
२३ द० कु०