2023-08-24 15:29:52 by Lakshmainarayana achar
 
This page has been fully proofread once and needs a second look.
  
  
  
  ,
  
  
  
   
  
  
  
  उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । २६५
  
  
  
  लाघवादीनि, शीतोष्णवातवर्षक्षुत्पिपासासहत्वम्, सत्त्वानामवस्था-
  
  
  
  
  
  
  
  न्तरेषु चित्तचेष्टितज्ञानम्, हरिणगवलगवयादिवघेन सस्यलोपत्प्र-
  
  
  
  
  
  
  
  तिक्रिया, वृकव्याघ्रादिघातेन स्थलपथशल्यशोधनम्, शैलाटवीप्र-
  
  
  
  
  
  
  
  देशानां विविधकर्मक्षमाणामालोचनम्, आटविकवर्गविश्रम्भणम्,
  
  
  
  
  
  
  
  उत्साहशक्तिसंधुक्षणेन प्रत्यनीकवित्रासनमिति बहुतमा गुणाः ।
  
  
  
  
  
  
  
  द्यूतेऽपि द्रव्यराशेस्तृणवत्त्यागाद्दनुपमानमाशयौदार्यम्, जयपराज-
  
  
  
  
  
  
  
  यानवस्थानाद्धर्पविपाषादयोर विधेयत्वम्, पौरुषैकनिमित्तस्यामर्षस्य
  
  
  
  
  
  
  
  वृद्धिः, अक्षहस्तभूम्यादिगोचराणामत्यन्तदुरुपलक्ष्याणां कूटकर्म-
  
  
  
  
  
  
  
  णामुपलक्षणादनन्तबुद्धिनैपुण्यम्, एकविषयोपसंहाराञ्च्चित्तस्याति
  
  
  
  
  
  
  
  चित्रमैकाग्र्यम्, अध्यवसाय सहचरेषु साहसेष्वतिरतिः, अतिक-
  
  
  
  र्कशपुरुषप्रतिसंसर्गादनन्यधर्षणीयता, मानावधारणम्, अकृपणं
  
  
  
  
  
  
  
  च शरीरयापनमिति । उत्तमाङ्गनोपभोगेऽप्यर्थधर्मयोः सफली-
  
  
  
  
  
  
  
  करणम्, पुष्कलः पुरुषाभिमानः, भावज्ञानकौशलम्, अलोभकिष्ट-
  
  
  
  
  
  
  
  माचेष्टितम्, अखिलासु कलासु वैचक्षण्यम्, अलब्धोपलब्धि-
  
  
  
  
  
  
  
   
  
  
  
  पदचन्द्रिका ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  र्षात् मेदो धातुः । 'मैदोवृद्ध्यभावादज्ञाङ्गानि लघूनि भवन्ति' इति वैद्यकम् । वर्षो
  
  
  
   वृष्टिः । क्षुत्क्षुधा। पिपासा तृषा । सत्त्वानां प्राणिनाम् । चित्तस्य मनसः । चेष्टि-
  
  
  
  तस्य ततस्य तत्क्रियायाश्च । गवलोऽरण्यमहिषः । 'रजखस्वलो वाहरिपुर्लुलायः' इत्यारभ्य
  
  
  
   'रक्ताक्षः कासरो हंसकालीतनयकालिकोकौ' इत्यग्रतः 'अरण्यजोऽस्मिन्गवयः' इत्य-
  
  
  
  
  
  
  
  भिधानचिन्तामणिवचनात् । गवयो गोसदृशः पशुः । 'गवयः स्याद्वनगवो गोस-
  
  
  
  दृक्षोऽश्ववारणः' इत्यभिधानचिन्तामणिः । वृक ईहामृगः । 'कोक ईहामृगो
  
  
  
   वृकः' इत्यमरः । भाषया 'विग' इति प्रसिद्धः । शैलाटवी पर्वतवनम् । अटव्यां
  
  
  
   चरन्ति ते आटविकाः । विश्रम्भणं विश्वासोत्पादनम् । द्यूतेऽपीति । आशयौ-
  
  
  
  दार्ययं चित्तौदार्यम् । कूटकर्मणाम् कपटकर्मणाम् । एकविषयोपसंहारात्तदेकवृत्ति-
  
  
  
  त्वात् । चित्तस्य मनसः ऐकाम्ग्र्यमे- काग्रस्य भावस्तथा । अध्यवसाय उद्योगः ।
  
  
  
   साहसमद्भुतकर्म । अतिरतिः प्रीतिः । धर्षणीयताभिभवनीयत्वम् । उत्तमाङ्ग-
  
  
  
  नोपभोग इति । पुष्कलः श्रेयान् 'श्रेयान् श्रेष्ठः पुष्कल: स्यात्' इत्यमरः ।
  
  
  
  
  
  
  
  भावश्चित्ताभिप्रायः । ज्ञानं ग्रन्थादिविषयम् । विचक्षणस्य भावो वैचक्षण्यम् ।
  
  
  
  
  
  
  
   
  
  
  
  भूषणा ।
  
  
  
   
  
  
  
  wak
  
  
  
   
  
  
  
  wil
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  प्रतिष्ठाप्रयोजनकं स्थानममात्यत्वादिरूपम् । आटविकानां पशूनां विश्वासः । आश-
  
  
  
  यौदार्यमाशयः चित्तम् । अध्यवसायो निश्चयः । मानावधारणमभिमाननिश्चयो
  
  
  
  
  
  
  
   
  
  
  
  लघुदीपिका ।
  
  
  
   
  
  
  
  न
  
  
  
   
  
  
  
  नत्वम् । 'स्थैर्ययं सत्कर्म संगतौ' इति वैजयन्ती । गवलो महिषः । धर्षणीयत्वमभि-
  
  
  
  
  
  
  
   
  
  
  
  २३५ द० कु०