This page has not been fully proofread.

,
 
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । २६५
लाघवादीनि, शीतोष्णवातवर्षक्षुत्पिपासासहत्वम्, सत्त्वानामवस्था-
न्तरेषु चित्तचेष्टितज्ञानम्, हरिणगवलगवयादिवघेन सस्यलोपत्र-
तिक्रिया, वृकव्याघ्रादिघातेन स्थलपथशल्यशोधनम्, शैलाटवीप्र-
देशानां विविधकर्मक्षमाणामालोचनम्, आटविकवर्गविश्रम्भणम्,
उत्साहशक्तिसंधुक्षणेन प्रत्यनीकवित्रासनमिति बहुतमा गुणाः ।
द्यूतेऽपि द्रव्यराशेस्तृणवत्यागाद्नुपमानमाशयौदार्यम्, जयपराज-
यानवस्थानाद्धर्पविपादयोर विधेयत्वम्, पौरुषैकनिमित्तस्यामर्षस्य
वृद्धिः, अक्षहस्तभूम्यादिगोचराणामत्यन्तदुरुपलक्ष्याणां कूटकर्म-
णामुपलक्षणादनन्तबुद्धिनैपुण्यम्, एकविषयोपसंहाराञ्चित्तस्याति
चित्रमैकाग्र्यम्, अध्यवसाय सहचरेषु साहसेष्वतिरतिः, अतिक-
र्कशपुरुषप्रतिसंसर्गादनन्यधर्षणीयता, मानावधारणम्, अकृपणं
च शरीरयापनमिति । उत्तमाङ्गनोपभोगेऽप्यर्थधर्मयोः सफली-
करणम्, पुष्कलः पुरुषाभिमानः, भावज्ञानकौशलम्, अलोभकिष्ट-
माचेष्टितम्, अखिलासु कलासु वैचक्षण्यम्, अलब्धोपलब्धि-
पदचन्द्रिका ।
 
र्षात् मेदो धातुः । 'मैदोवृद्ध्यभावादज्ञानि लघूनि भवन्ति' इति वैद्यकम् । वर्षो
वृष्टिः । क्षुत्क्षुधा। पिपासा तृषा । सत्त्वानां प्राणिनाम् । चित्तस्य मनसः । चेष्टि-
तस्य तक्रियायाश्च । गवलोऽरण्यमहिषः । 'रजखलो वाहरिपुर्लुलायः' इत्यारभ्य
'रक्ताक्षः कासरो हंसकालीतनयकालिको' इत्यग्रतः 'अरण्यजोऽस्मिन्गवयः' इत्य-
भिधानचिन्तामणिवचनात् । गवयो गोसदृशः पशुः । 'गवयः स्याद्वनगवो गोस-
दृक्षोऽश्ववारणः' इत्यभिधानचिन्तामणिः । वृक ईहामृगः । 'कोक ईहामृगो
वृकः' इत्यमरः । भाषया 'विग' इति प्रसिद्धः । शैलाटवी पर्वतवनम् । अटव्यां
चरन्ति ते आटविकाः । विश्रम्भणं विश्वासोत्पादनम् । द्यूतेऽपीति । आशयौ-
दार्य चित्तौदार्यम् । कूटकर्मणाम् कपटकर्मणाम् । एकविषयोपसंहारात्तदेकवृत्ति-
त्वात् । चित्तस्य मनसः ऐकाम्यमेकाग्रस्य भावस्तथा । अध्यवसाय उद्योगः ।
साहसद्भुतकर्म । अतिरतिः प्रीतिः । धर्षणीयताभिभवनीयत्वम् । उत्तमाङ्ग-
नोपभोग इति । पुष्कलः श्रेयान् 'श्रेयान् श्रेष्ठः पुष्कल: स्यात्' इत्यमरः ।
भावश्चित्ताभिप्रायः । ज्ञानं ग्रन्थादिविषयम् । विचक्षणस्य भावो वैचक्षण्यम् ।
भूषणा ।
 
wak
 
wil
 
प्रतिष्ठाप्रयोजनकं स्थानममात्यत्वादिरूपम् । आटविकानां पशूनां विश्वासः । आश-
यौदार्यमाशयः चित्तम् । अध्यवसायो निश्चयः । मानावधारणमभिमाननिश्चयो
लघुदीपिका ।
 
नवम् । 'स्थैर्य सत्कर्म संगतौ इति वैजयन्ती । गवलो महिषः । धर्षणीयत्वमभि-
२३५० कु०