2023-08-24 15:20:06 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

त्याज्य: [^१]पितृपैतामहै [^२]रस्मादृशैरयमधिपतिः । अपरित्यजन्तोऽपि कमुपकारमश्रयमाणवाचः कुर्मः । सर्वथा नयज्ञस्य वसन्तभानोरश्मकेन्द्रस्य हस्ते राज्यमिदं पतितम् । अपि नामापदो भाविन्यः प्रकृतिस्थमेनमापादयेयुः । अनर्थेषु [^३[सुलभव्यलीकेषु क्वचिदुत्पन्नोऽपि द्वेषः सद्वृत्तमस्मै न रोचयेत् । भवतु भविता तावदनर्थः । स्तम्भितपिशुनजिह्वो यथाकथंचिभ्रष्टपदस्तिष्ठेयम्' इति । एवंगते मन्त्रिणि, राजनि च कामवृत्ते, चन्द्रपालितो नामाश्मकेन्द्रामात्यस्येन्द्रपालितस्य सूनुरसद्वृत्तः पितृनिर्वासितो नाम भूत्वा,बहुभिश्चारणगणैर्बह्वीभि- रनल्पकौशलाभिः शिल्पकारिणीभिरनेकच्छन्नकिंकरैश्च गूढपुरुषैः परिवृतोऽभ्येत्य विविधाभिः क्रीडाभिर्विहारभद्रमात्मसादकरोत् । अमुना चैव संक्रमेण राजन्यास्पदमलभत । लब्धरन्ध्रश्च स यद्यव्द्य- सनमारभते तत्तथेत्यवर्णयत्-'देव, यथा मृगया ह्यौपकारिकी न तथान्यत् । अत्र हि व्यायामोत्कर्षादापत्सूपकर्ता दीर्घाध्वलङ्घनक्षमो जङ्घाजवः कफापचयादारोग्यैकमूलमाशयाग्निदीप्तिः, मेदोपकर्षादङ्गानां स्थैर्यकार्कश्याति-
 
पदचन्द्रिका ।
 
जन्त आश्रयन्तः । कमुपकारं प्रयोजनादिकम् ।कर्मचयमित्यध्याहारः । किंविधा अश्रूयमाणवाचः । 'व्यलीकमपराधः स्यात्' इत्यमरः । स्तम्भिता स्तम्भं प्रापिता । 'पिशुनः सूचकः खलः' इति कोशः । अभ्रष्टपदोऽगताधिकारः । चारणगणैर्गायकसमूहै: । 'चारणो गायकः समौ' इति वैजयन्ती । शिल्पकारिणीभिश्चित्रकारिणीभिः । व्यसनम् । 'यस्माद्धि व्यस्यति श्रेयस्ततो व्यसनमुच्यते ।' इति कामन्दकः । 'स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यार्थदूषणे । दण्डपारुष्यमित्येतन्महाव्यसनसप्तकम् ॥' इति वैजयन्ती । मृगया पापर्द्धिः । औपकारिण्युपकारायार्हा सा तथा । व्यायामो हिण्डनम् । कफः श्लेष्मा । मेदोपक-
 
भूषणा ।
 
पितृपितामहानुयातैः इत्येव पाठः । सुलभमलीकं दुःखं येष्वित्यर्थः । आस्पदं
 
लघुदीपिका ।
 
व्यलीकमपराधः । 'चारणो गायकः समौ' इति वैजयन्ती । स्त्र्यादि सप्तव्यसनानि । 'स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यार्थदूषणे । दण्डपारुष्यमित्येतन्महाव्यसनसप्तकम् ॥" इति वैजयन्ती । कफः श्लेष्मा । आशयाग्निः । स्थैर्यं तु कर्मसह-
 
[^१]G. 'पितृपितामहानुयातै:'.
[^२]G. 'अस्माकमुपसेवितमिदं राजकुलमीदृशश्चायमधिपतिः'.
[^३]G. 'सुलभालीकेषु'.