2023-08-24 06:18:02 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

ननु हितोपदेशाद्गुरवो भवन्तः । किमिति गुरुत्वविपरीतमनु-
ष्ठितम्' इति तमुत्थाप्य क्रीडानिर्भरमतिष्ठत् । अथैषु दिनेषु भूयो-
भूयः प्रस्तुतेऽर्थे प्रेर्यमाणो मन्त्रिवृद्धेन वचसाभ्युपेय [^१]मनसैवा-
चित्तज्ञ इत्यवज्ञातवान् । अथैवं मन्त्रिणो मनस्यभूत् – 'अहो
मे मोहाद्बालिश्यम् । [^२]अरुचितेऽर्थे चोदयन्नर्थीवाक्षिगतोऽहमस्य
हास्यो जातः । स्पष्टमस्य चेष्टानामायथापूर्व्यम् । तथा हि । न
मां स्निग्धं पश्यति, न स्मितपूर्वं भाषते, न रहस्यानि विवृणोति,
न हस्ते स्पृशति, न व्यसनेष्वनुकम्पते, नोत्सवेष्वनुगृह्णाति, न
विलोभनवस्तूनि प्रेषयति, न मत्सुकृतानि प्रगणयति, न मे गृहवार्तां
पृच्छति, न मत्पक्ष्यान्प्रत्यवेक्षते, न मामासन्नकार्येष्वभ्यन्तरीक-
रोति, न मामन्तःपुरं प्रवेशयति । अपि च मामनर्हेषु कर्मसु
नियुङ्क्ते , मदासनमन्यैरवष्टभ्यमानमनुजानाति, मद्वैरिषु विश्रम्भं
दर्शयति, मदुक्तस्योत्तरं न ददाति, मत्समानदोषान्विगर्हयति,
मर्मणि मामुपहसति, स्वमतमपि मया वर्ण्यमानं प्रतिक्षिपति,
महार्हाणि वस्तूनि मत्प्रहितानि नाभिनन्दति, नयज्ञानां स्खलितानि
मत्समक्षं मूर्खैरुद्घोषयति । सत्यमाह चाणक्यः – 'चित्तज्ञानानुव-
र्तिनोऽनर्था अपि प्रियाः स्युः । दक्षिणा अपि तद्भावबहिष्कृता
द्वेष्या भवेयुः' इति । तथापि का गतिः । अवनीतोऽपि न परि-
 
पदचन्द्रिका ।
 
अजलिना चुम्बितः स्पृष्टश्चूडो मौलिर्येनेति तथा । अथेति । भूयोभूयो वारंवारम् । प्रस्तुतेऽर्थे प्रकृतकार्ये । मन्त्रिणः प्रधानस्य । अक्षिगतो द्वेष्यः । 'द्वेष्योऽक्षिगत
उच्छ्यते' इति हलायुधः । विलोभनवस्तु दानवस्तु । मत्पक्ष्यान्मदीयपक्षवर्तिनः । अवष्टभ्यमानं आक्रम्यमाणम् । विश्रम्भं विश्वासः ] पसम् । प्रतिक्षिपति अवगणयति ।
महार्हाण्यमौल्यानि । नयज्ञानां नीतिविदाम् । चाणक्यो नीतिशास्त्रकर्ता । चित्तज्ञानमनुवर्तन्ते ते तथा ।
चन्द्क्षिणाः सरला अपि । तस्य चित्तस्य भावस्तद्भावस्तद्बहिष्कृताः । द्वेष्या वैरिका णः । तथापीति । अविनीतोऽप्यत्युद्धतोऽपि । अपरित्य-
 
भूषणा-
 
शेषः । मनसा वा । मनसा त्वित्यर्थः । तथापि का गतिः । उपायो नास्तीति भावः ।
 
लघुदीपिकासहितम् ।
 
ननु हितोपदेशाहुरवो भवन्तः । किमिति गुरुत्वविपरीतमनु-
ठितम्

 
' इति तमुत्थाप्य क्रीडानिर्भरमतिष्ठत् । अथैषु दिनेषु भूद्वेष्यो-
भूयः प्रस्तुते
र्थे प्रेर्यमाणो मन्त्रिवृद्धेन वचसाभ्युपेय म॑नसैवा-
चित्तज्ञ इत्यवज्ञातवान् । अथैवं मत्रिणो मनस्यभूत् – 'अहो
मे मोहाद्वालिश्यम् । अरुचितेऽर्थे चोदयन्नर्थीवा
क्षिगतोऽहमस्य
हास्यो जातः । स्पष्टमस्य चेष्टानामायथापूर्व्यम् । तथा हि । न
मां स्निग्धं पश्यति, न स्मितपूर्वं भाषते, न रहस्यानि विवृणोति,
न हस्ते स्पृशति, न व्यसनेष्वनुकम्पते, नोत्सवेष्वनुगृह्णाति, न
विलोभनवस्तूनि प्रेषयति, न मत्सुकृतानि प्रगणयति, न मे गृहवार्ता
पृच्छति, न मत्पक्ष्यान्प्रत्यवेक्षते, न मामासन्नकार्येष्वभ्यन्तरीक-
रोति, न मामन्तःपुरं प्रवेशयति । अपि च मामनर्हेषु कर्मसु
नियुङ्के, मदासनमन्यैरवष्टभ्यमानमनुजानाति, मद्वैरिषु विश्रम्भं
दर्शयति, मदुक्तस्योत्तरं न ददाति, मत्समानदोषान्विगर्हयति,
मर्मणि मामुपहसति, स्वमतमपि मया वर्ण्यमानं प्रतिक्षिपति,
महार्हाणि वस्तूनि मत्प्रहितानि नाभिनन्दति, नयज्ञानां स्खलितानि
मत्समक्षं मूर्खरुद्घोषयति । सत्यमाह चाणक्यः – 'चित्तज्ञानानुव-
तिनोऽनर्था अपि प्रियाः स्युः । दक्षिणा अपि तद्भावबहिष्कृता
द्वेष्या भवेयुः' इति । तथापि का गतिः । अवनीतोऽपि न परि-
पदचन्द्रिका ।
 
अजलिना चुम्बितः स्पृष्टवडो मौलिर्येनेति तथा । अथेति । भूयोभूयो वारंवारम् ।
प्रस्तुतेऽर्थे प्रकृतकार्ये । मन्त्रिणः प्रधानस्य । अक्षिगतो द्वेष्यः । 'द्वेष्योऽक्षिगत
उच्यते' इति हलायुधः । विलोभनवस्तु दानवस्तु । मत्पक्ष्यान्मदीयपक्षवर्तिनः ।
अवष्टभ्यमानं आक्रम्यमाणम् । विश्रम्भं विश्वासम् । प्रतिक्षिपति अवगणयति ।
महार्हाण्यमौल्यानि । नयज्ञानां नीतिविदाम् । चाणक्यो नीतिशास्त्रकर्ता । चित्त-
ज्ञानमनुवर्तन्ते ते तथा । दक्षिणाः सरला अपि । तस्य चित्तस्य भावस्तद्भावस्तद्व-
हिष्कृताः । द्वेष्या वैरिणः । तथापीति । अविनीतोऽप्यत्युद्धतोऽपि । अपरित्य-
शेषः । मनसा वा । मनसा
 
२६३
 
भूषणा ।
 
वित्यर्थः । तथापि का गतिः । उपायो नास्तीति भावः ।
 
लघुदीपिका ।
 
हलायुधः । विलोभ
नीयवस्तूनि आदरणीयवस्तूनि ।
 
'द्वेष्योऽक्षिगत उच्यते' इति
 
पाठा०-

 
[^
]G. 'मनसा वा'.
[^
]G. 'अनुचिते'.