2023-08-29 13:36:04 by Lakshmainarayana achar
This page has been fully proofread twice.
बहवः । नन्विदमुपपन्नं देवस्य, यदुत सर्वलोकस्य वन्द्या जातिः,
अयातयामं वयः, दर्शनीयं वपुः, अपरिमाणा विभूतिः । तत्सर्वं
सर्वाविश्वासहेतुना सुखोपभोगप्रतिबन्धिना बहुमार्गविकल्पना-
त्सर्वकार्येष्वमुक्तसंशयेन [^१]तन्त्रावापेन मा कृथा वृथा । सन्ति हि ते दन्तिनां दश सहस्राणि, हयानां लक्षत्रयम्, अनन्तं च पादातम् ।
अपि च पूर्णान्येव हैमरत्नै: कोशगृहाणि । सर्वश्चैष जीवलोकः
समग्रमपि युगसहस्रं भुञ्जानो न ते कोष्ठागाराणि रेचयिष्यति ।
किमिदमपर्याप्तं यदन्यार्जितायायासः क्रियते । जीवितं हि नाम जन्मवतां चतुःपञ्चान्यहानि । तत्रापि भोगयोग्यमल्पाल्पं वयः खण्डम् । अपण्डिताः पुनरर्जयन्त एव ध्वंसन्ते । नार्जितस्य वस्तुनो लवमप्यास्वादयितुमीहन्ते । किं बहुना राज्यभारं भारक्षमेष्वन्तरङ्गेषु भक्तिमत्सु समर्प्य, अप्सरः प्रतिरूपाभिरन्तःपुरिकामी रममाणो गीतसंगीतपानगोष्ठीश्च यथर्तु बध्न [^२]न्यथार्हं कुरु शरीरलाभम्' इति पञ्चाङ्गीमृष्टभूमिरञ्जलि- चुम्बितचूडश्चिरमशेत । ग्राहसीच्च प्रीतिफुल्ललोचनोऽन्तः- पुरप्रमदाजनः । जननाथश्च सस्मितम् – [^३]'उत्तिष्ठ,
पदचन्द्रिका ।
कर्तारः । प्रारब्धेष्वारम्भितेषु । अयातयाममजीर्णम् । नवमित्यर्थः । अपरिमाणेयत्तारहिता । विभूतिरैश्वर्यम् । तन्त्रावापेन । 'तन्त्रं स्वराष्ट्रचिन्ता स्यादावापस्त्वरिचिन्तनम्' इति । सन्तीति क्रियापदम् । हीति निश्चये । त इति । तवेत्यर्थः । पादातं पत्तिसंहतिः । कोशगृहाणि भाण्डागाराणि । कोष्ठागाराणि धान्यसंचयगृहाणि ।
' पुंसि कोष्ठोऽन्तर्जठर कुसूलोऽन्तर्गृहं तथा' इति कोशः । अन्यार्जितं परकीयम् । वयःखण्डमायुष्यलेशम् । अपण्डिता नीचजनाः । अन्तःपुरिकाभिः स्त्रीभिः । यथार्हम् । वीप्सायां यथाशब्दः । पञ्चाङ्गी पञ्चानामङ्गानां समाहारस्तथा ।
'द्विगोः' (४।१।२१ ) इति ङीप् । 'जानू बाहुद्वयं मूर्धा पञ्चाङ्गम्' इत्युत्पलिनी ।
भूषणा ।
इति यावत् । तन्त्रावापो नीतिविचारः । पण्डिताः पुनश्च नीतिशास्त्रज्ञाः । पञ्चाङ्गीमृष्टेति । पञ्चभिरङ्गैर्मृष्टा स्पृष्टेत्यर्थः । जननाथश्चातिष्ठत । उत्तिष्ठतेति । यूयमिति
लघुदीपिका ।
वृत्तिचरो द्विजः ॥ इति मनुः । अयातयाममजीर्णम् । तन्त्रावापेन । 'तन्त्रं स्वराष्ट्रचिन्तायामावापस्त्वरिचिन्तम्' । पादातं पत्तिसमूहः । कोष्ठागाराणि । 'पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा । यथार्हम् । वीप्सायां यथाशब्दः । पञ्चाङ्गी पञ्चानामङ्गानां समाहारः। 'जानू बाहुद्वयं मूर्धा पञ्चाङ्गमिति कथ्यते इत्युत्पलः ।
[^१]G. 'तन्त्रावापेनैव'.
[^२]G. 'यथार्थम्'.
[^३G. 'स्पृष्ट',
[^४]G.'उत्तिष्ठत उत्तिष्ठत'.