2023-08-24 06:06:47 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२६२
 
दशकुमारचरितम् ।
 
[ अष्टमः
 
,
 
बहवः । नन्विदमुपपन्नं देवस्य, यदुत सर्वलोकस्य वन्द्या जातिः,

अयातयामं वयः, दर्शनीयं वपुः, अपरिमाणा विभूतिः । तत्सर्
वं
सर्वाविश्वासहेतुना सुखोपभोगप्रतिबन्धिना बहुमार्गविकल्पना-

त्सर्वकार्येष्वमुक्तसंशयेन [^१]तन्त्रावापेन मा कृथा वृथा । सन्ति हि ते
दु
न्तिनां दश सहस्राणि, हयानां लक्षत्रयम्, अनन्तं च पादातम् ।

अपि च पूर्णान्येव हैमरलैःत्नै: कोशगृहाणि । सर्वश्चैष जीवलोकः

समग्रमपि युगसहस्रं भुञ्जानो न ते कोष्ठागाराणि रेचयिष्यति ।

किमिदद्मपर्याप्तं यदन्यार्जितायायासः क्रियते । जीवितं हि नाम जन्म-
वतां चतुःपञ्चान्यहानि । तत्रापि भोगयोग्यमल्पाल्पं वयः खण्डम् ।
अपण्डिताः पुनरर्जयन्त एव ध्वंसन्ते । नार्जितस्य वस्तुनो लवम-
प्यास्वादयितुमीहन्ते । किं बहुना राज्यभारं भारक्षमेष्वन्तरङ्गेषु
भक्तिमत्सु समर्प्य, अप्सरः प्रतिरूपाभिरन्तःपुरिकामी रममाणो
गीतसंगीतपानगोष्ठीश्च यथर्तु बन्ध् [^२]न्यथार्हं कुरु शरीरलाभम्' इति
पञ्चाङ्गी मृष्टभूमिरञ्जलि- चुम्बितचूडश्चिरमशेत । ग्राहसीच प्रीति-
फुल्ललोचनोऽन्तः- पुरप्रमदाजनः । जननाथश्च सस्मितम् – [^३]'उत्तिष्ठ,
 

 
पदचन्द्रिका ।
 

 
कर्तारः । प्रारब्धेष्वारम्भितेषु । अयातयाममजीर्णम् । नवमित्यर्थः । अपरिमाणेय-
त्तारहिता । विभूतिरैश्वर्यम् । तन्त्रावापेन । 'तन्त्रं स्वराष्ट्रचिन्ता स्यादावापस्त्वरि-
चिन्तनम्' इति । सन्तीति क्रियापदम् । हीति निश्चये । त इति । तवेत्यर्थः ।
पादातं पत्तिसंहतिः । कोशगृहाणि भाण्डागाराणि । कोष्ठागाराणि धान्यसंचयगृहाणि ।

' पुंसि कोष्ठोऽन्तर्जठर कुसूलोऽन्तर्गृहं तथा' इति कोशः । अन्यार्जितं परकी-
यम् । वयः खण्डमायुष्यलेशम् । अपण्डिता नीचजनाः । अन्तःपुरिकाभिः
स्त्रीभिः । यथार्हम् । वीप्सायां यथाशब्दः । पञ्चाङ्गी पञ्चानामामङ्गानां समाहारस्तथा ।

'द्विगोः' (४।१।२१ ) इति डीङीप् । 'जानू बाहुद्वयं मूर्धा पञ्चाङ्गम्' इत्युत्पलिनी ।
 

 
भूषणा ।
 

 
इति यावत् । तन्त्रावापो नीतिविचारः । पण्डिताः पुनश्च नीतिशास्त्रज्ञाः । पञ्चाङ्गी-
मृष्टेति । पञ्चभिरजैङ्गैर्मृष्टा स्टृपृष्टेत्यर्थः । जननाथश्चातिष्ठत । उत्तिष्ठतेति । यूयमिति

 
लघुदीपिका ।
 
J
 

 
वृत्तिचरो द्विजः ॥ इति मनुः । अयातयाममजीर्णम् । तन्त्रावापेन । 'तन्त्रं खरा-
स्वराष्ट्रचिन्तायामावापस्त्वरिचिन्तम्' । पादातं पत्तिसमूहः । कोष्ठागाराणि । 'पुंसि
कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा । यथार्हम् । वीप्सायां यथाशब्दः । पञ्चाङ्गी
पं
ञ्चानामज्ञाङ्गानां समाहारः । 'जानू बाहुद्वयं मूर्धा पञ्चाङ्गमिति कथ्यते इत्युत्पलः ।
पाठा० -

 
[^
]G. 'तन्त्रावापेनैव'.
[^
]G. 'यथार्थम्'.
[^
G. 'स्पृष्ट',
[^
]G.'उत्तिष्ठत
उत्तिष्ठत'.
 
n