2023-05-18 02:11:01 by ambuda-bot
This page has not been fully proofread.
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । २६१
ते चामी कष्टदारिद्र्या बहुपत्या यज्वानो वीर्यवन्तश्चाद्याप्यप्राप्त-
प्रतिग्रहाः । दत्तं चैभ्यः स्वर्ग्यमायुष्यमरिष्टनाशनं च भवति' इति
बहु बहु दापयित्वा तन्मुखेन स्वयमुपांशु भक्षयन्ति । तदेवम-
हर्निशमविहितसुखलेशमायासबहुलमविरलकदर्शनं च नयतोऽनय-
ज्ञस्यास्तां चक्रवर्तिता, स्वमण्डलमात्रमपि दुरारक्ष्यं भवेत् ।
शास्त्रज्ञसमाज्ञातो हि यद्ददाति, यन्मानयति, यत्प्रियं ब्रवीति,
तत्सर्वमतिसंधातुमित्यविश्वासः । अविश्वास्यता हि जन्मभूमिरल -
क्ष्म्याः । यावता च नयेन विना न लोकयात्रा सलोके एव
सिद्धः । नात्र शास्त्रेणार्थः । स्तनंधयोऽपि हि तैस्तैरुपायैः स्तन -
पानं जनन्या लिप्सते । तद्पास्यातियन्त्रणामनुभूयन्तां यथेष्टमि-
न्द्रियसुखानि । येऽप्युपदिशन्ति 'एवमिन्द्रियाणि जेतव्यानि,
एवमरिषड्वर्गस्त्याज्यः, सामादिरुपायवर्गः स्वेषु परेषु चाजस्रं
प्रयोज्य:, संधिविग्रहचिन्तयैव नेयः कालः, स्वल्पोऽपि सुखस्याव-
काशो न देयः' इति, तैरप्येभिर्मत्रिवकैर्युष्मत्तश्चौर्यार्जितं धनं
दासीगृहेष्वेव भुज्यते । के चैते वराकाः । येऽपि मत्रकर्कशास्तत्र-
कर्तारः शुक्राङ्गिरसविशालाक्षबाहुदन्तिपुत्रपराशरप्रभृतयस्तैः किम-
रिषभर्गो जितः, कृतं वा तैः शास्त्रानुष्ठानम् । तैरपि हि प्रार-
ब्धेषु कार्येषु दृष्टे सिद्ध्यसिद्धी । पठन्तश्चापठद्भिरतिसंधीयमाना
पदचन्द्रिका ।
B
चक्रवर्तिता राष्ट्रव्यापकता । जन्मभूमिरुत्पत्तिस्थानम् । अरिषदर्गः कामक्रोधलो-
भमोहमदमात्सर्याणि । सामादिरुपायाः ( यवर्गः ) । 'सामदाने भेददण्डावित्युपाय-
चतुष्टयम्' इत्यमरः । मन्त्रिबकैर्मन्त्रिकुत्सितैः । 'कुत्सितानि कुत्सनैः' ( २।१।५३ )
इति समासः । 'अधोदृष्टिकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बक-
वृत्तिचरो द्विजः' इति मनुः । मन्त्रकर्कशा मन्त्रकठिनाः । तन्त्रकर्तारः कर्म-
-
भूषणा ।
'यशः कीर्तिः समज्ञा च' इत्यमरः । तैरपीति । अर्जनेऽन्वयः । तैरपि प्रारब्ध इवि
तृतीयायाः प्रारम्मेऽन्वयः । अतिसंघीयमाना इति । मिलिता अनुयायिन
लघुदीपिका ।
मोहमदमात्सर्याणि । मन्त्रिबकैर्मन्त्रिकुत्सितैः । 'कुत्सितानि कुत्सनैः' इवि
समासः । 'अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बक-
पाठा० - १ 'नयेन चिना न याति लोकयात्रा'; 'समयेन विना लोक-
यात्रा'. २ 'लोकत:'.