2023-08-29 13:36:28 by Lakshmainarayana achar

This page has been fully proofread twice.

विहारो मन्त्रो वा सेव्यः । सोऽस्यैतावान्स्स्वैर विहारकालो यस्य
तिस्रत्रिपादोत्तरा नाडिकाः । सप्तमे चतुरङ्गबलप्रत्यवेक्षणप्रयासः ।
अष्टमेऽस्य सेनापतिसखस्य विक्रमचिन्ताक्लेशः । पुनरुपास्यैव
संध्याम्, प्रथमे रात्रिभागे गूढपुरुषा द्रष्टव्याः । तन्मुखेन
चातिनृशंसाः [^१]शास्त्राग्निरसप्रणिधयोऽनुष्ठेयाः । द्वितीये भोजनानन्तरं श्रोत्रिय इव स्वाध्यायमारभेत । तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत किल । कथमिवास्याजस्र [^२]चिन्तायासविह्वलमनसो वराकस्य निद्रासुखमुपनमेत । पुनः षष्ठे शास्त्रचिन्ताकार्यचिन्तारम्भः । सप्तमे तु मन्त्रग्रहो दूताभिप्रेषणानि च । दूताश्च नामोऽभयत्र प्रियाख्यानलब्धानर्थान्वी- तशुल्कबाधवर्त्मनि वणिज्यया वर्धयन्त:, कार्यमविद्यमानमपि लेशेनोत्पाद्यानवरतं भ्रमन्ति । अष्टमे पुरोहितादयोऽभ्येत्यैनमाहुः – 'अद्य दृष्टो दुःस्वप्न: । दुःस्था ग्रहाः । शकुनानि चाशुभानि । शान्तयः क्रियन्ताम् । सर्वमस्तु सौवर्णमेव होमसाधनम् । एवं सति कर्म गुणवद्भवति । ब्रह्मकल्पा इमे ब्राह्मणाः । कृतमेभिः स्वस्त्ययनं कल्याणतरं भवति ।
 
पदचन्द्रिका ।
 
नृशंसा घातुकाः । शस्त्रप्रणिधिः शस्त्रमारकः ।अग्निप्रणिधिरग्निदायकः । रसप्रणिधिर्विषदायकः । 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः' इति मेदिनी । संविष्टः कृतशयनः । 'संवेशः शयने स्थाने सत्समारोहणेऽपि च' इत्यजयः । अजस्रं निरन्तरम् । 'नित्यानवरताजस्रम्' इत्यमरः । विह्वलमनसो व्याकुलचित्तस्य ।
शास्त्रचिन्ता कार्यचिन्ता चेति । वीता शुल्कबाधा यत्रेति क्रियाविशेषणम् । वणिज्यया वणिक्कर्मणा । अनवरतं निरन्तरम् । अभ्येत्यैकीभूत्वा । गुणवत्सार्थकम् । ब्रह्मकल्पा ब्रह्मन्यूनाः । स्वस्त्ययनं क्षेमप्रमाणम् । उपांश्वेकान्ते
 
भूषणा ।
 
सदह्यतामाक्षेपः । तिस्र इत्यादि । त्रिंशंद्घटिकात्मकदिवसस्याष्टमो भागः । शस्त्रानिप्रणिधयः शस्त्राग्निभ्यां हन्तारो गुप्तदूताः । श्रोत्रिय इवेति । श्रोत्रिय इव । उपनमेत समीपमागच्छेत् । वीता शुल्कस्य 'मासूल' पदवाच्यस्य बाधा यत्र तत्तथा । राजकीयमित्युक्त्वा बाधामपहरन्ति । शास्त्रज्ञसमाज्ञातो नीतिशास्त्रज्ञत्वेन कीर्तितः ।
 
लघुदीपिका ।
 
चानादरे । रसप्रणिधिविषदायकः । 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः' संविष्ट आरूढशयनः । 'संवेशः शयनेऽपि स्यात्तत्समारोहणेऽपि च' इत्यजयः । स्वस्त्ययनं क्षेमप्रापणम् । 'स्वस्त्याशीः क्षेमपुण्यादौ । अरिषड्वर्गः कामक्रोधलोभ-
 
[^१]G. 'शस्त्राग्निप्रणिधयः'.
[^२]G. 'चिन्तायासैर्विह्वलमनसो वा कस्य'.