2023-08-23 15:42:14 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

क्षालिते मुखे मुष्टिमर्धमुष्टिं [^१]वाभ्यन्तरीकृत्य कृत्स्नमायव्ययजातमह्न: प्रथमेऽष्टमे वा भागे श्रोतव्यम् । शृण्वत एवास्य द्विगुणमपहरन्ति तेऽध्यक्षपूर्ताश्चत्वारिंशतं चाणक्योपदिष्टानाहरणोपायान्सहस्रधात्मबुद्ध्यैव ते विकल्पयितारः । द्वितीयेऽन्योन्यं विवदमानानां प्रजानामाक्रोद्दह्यमानकर्ण: कष्टं जीवति । तत्रापि प्राड्विवाकादयः स्वेच्छ्वासः छया जयपराजयौ [^२] विदधानाः, पापेनाकीर्त्या च भर्तारमात्मानं चार्थैर्योजयन्ति । तृतीये स्नातुं भोक्तुं च लभते । भुक्तस्य यावदन्धःपरिणामस्तावदस्य विषभयं न शाम्यत्येव । चतुर्थे हिरण्यप्रतिग्रहाय हस्तं प्रसारयन्नेवोत्तिष्ठति । पञ्चमे मन्त्रचिन्तया महान्तमायासमनुभवति । तत्रापि मन्त्रिणो [^३]मध्यस्था इवान्योन्यं मिथः संभूय, दोषगुणौ दूतचारवाक्यानि शक्याशक्यतां देशकालकार्यावस्थाश्च स्वेच्छया विपरिवर्तयन्तः, स्वपरमित्रमण्डलान्युपजीवन्ति । बाह्याभ्यन्तरांश्च कोपान्गूढमुत्पाद्य प्रकाशं प्रशमयन्त इव स्वामिनमवशमवगृह्णन्ति । षष्ठे स्वैर-
 
पदचन्द्रिका -
 
नो मानः प्रस्थादिभिः कृतः' इति वैजयन्ती । मुष्ट्यर्धमुष्टी परिमाणविशेषौ । आक्रोशात् । 'यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् । तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति' इत्यमरः । ते प्राड्विवाकाः । अन्धःपरिणाम ओदनपरिपाकः । महान्तमायासं क्लेशम् । संभूय मिलित्वा । दूताः सेवकाः । चारा
गूढदूताः । स्वपरमित्राणां मण्डलम् । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकं संबध्यते । स्वमण्डलं परमण्डलं मित्रमण्डलं वेति व्याख्या । प्रशमयन्तः शान्ति प्रापयन्तः ।
 
भूषणा
 
'तुलावच्छेद उन्मानो मानः प्रस्थादिभिः कृतः' इति वैजयन्ती । मुष्टिमर्धमुष्टिं चेति उभौ परिमाणविशेषौ । 'शुक्तिभ्यां च पलं ज्ञेयं मुष्टिरष्टमिका तथा'। जनपदायव्ययशोधको मुष्टिः । ग्रामस्य शोधकोऽर्धमुष्टिः । शृण्वत एव । अनादरे षष्ठी । मध्यस्थायिनः भाषया 'वकील' पदवाच्याः । दूतचारवाक्यानि । अशक्यतां चेत्यर्थः । स्वपरेति । स्वस्य परस्य शत्रोश्च मित्रमण्डलान्यप्युप
- जीवन्त्याश्रयन्ते तेभ्योऽपि गृह्णन्ति
 
लघुदीपिकासहितम् ।
 
क्षालिते मुखे मुष्टिमर्धमुष्टिं वाभ्यन्तरीकृत्य कृत्स्नमायव्ययजातमहः
प्रथमेऽष्टमे वा भागे श्रोतव्यम् । शृण्वत एवास्य द्विगुणमपह-
रन्ति तेऽध्यक्षपूर्ताश्चत्वारिंशतं चाणक्योपदिष्टानाहरणोपायान्स-
हस्रधात्मबुद्ध्यैव ते विकल्पयितारः । द्वितीयेऽन्योन्यं विवदमा-
नानां प्रजानामाक्रोशाह्यमानकर्ण: कष्टं जीवति । तत्रापि प्रादि-
वाकादयः स्वेच्छया जयपराजयौ विदेधानाः, पापेनाकीय
च भर्तारमात्मानं चार्थैर्योजयन्ति । तृतीये स्नातुं भोक्तुं च लभते ।
भुक्तस्य यावदन्धःपरिणामस्तावदस्य विपभयं न शाम्यत्येव ।
चतुर्थे हिरण्यप्रतिग्रहाय हस्तं प्रसारयन्नेवोत्तिष्ठति । पञ्चमे मन्त्र-
चिन्तया महान्तमायासमनुभवति । तत्रापि मत्रिणो मध्यस्था
इवान्योन्यं मिथः संभूय, दोषगुणौ दूतचारवाक्यानि शक्या-
शक्यतां देशकालकार्यावस्थाच स्वेच्छया विपरिवर्तयन्तः, स्वपर-
मित्रमण्डलान्युपजीवन्ति । बाह्याभ्यन्तरांञ्च कोपान्गूढमुत्पाद्य
प्रकाशं प्रशमयन्त इव स्वामिनमवशमवगृह्णन्ति । षष्ठे स्वैर-
२५९
 
-
 
पदचन्द्रिका ।
 
नो मानः

 
प्रस्थादिभिः कृतः' इति वैजयन्ती । मुष्टिमर्धमुष्टिं चेति मुष्ट्यर्धमुष्टी परिमाणविशेषौ ।
आक्रोशात् । 'यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् । तत्र लाक्षारणा यः
स्यादाक्रोशो मैथुनं प्रति' इत्यमरः । ते प्राविाकाः । अन्धःपरिणाम ओदन-
परिपाकः । महान्तमायासं क्लेशम् । संभूय मिलिला । दूताः सेवकाः । चारा
गूढदूताः । स्वपरमित्राणां मण्डलम् । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकं संबध्यते ।
स्वमण्डलं परमण्डलं मित्रमण्डलं वेति व्याख्या । प्रशमयन्तः शान्ति प्रापयन्तः ।
 
भूषणा ।
 
'तुलावच्छेद उन्मानो मानः प्रस्थादिभिः कृतः' इति वैजयन्ती । मुष्टिमर्धमुष्टिं चेति
उभौ परिमाणविशेषौ । 'शुक्तिभ्यां च पलं ज्ञेयं मुष्टिरष्टमिका तथा'। जनपदायव्यय-
शोधको मुष्टिः । ग्रामस्य शोधकोऽर्धमुष्टिः । शृण्वत एव । अनादरे षष्ठी । मध्यस्था-
यिनः भाषया 'वकील' पदवाच्याः । दूतचारवाक्यानि । अशक्यतां चेत्यर्थः । स्वप
रेति । स्वस्य परस्य शत्रोश्च मित्रमण्डलान्यप्युपजीवन्त्याश्रयन्ते तेभ्योऽपि गृह्णन्ति
लघुदीपिका ।
 
प्रस्थादिभिः कृतः' इति वैजयन्ती । मुष्टिमर्धमुष्टिं चेति मुध्यर्घमुष्टी परिमाण-
विशेषौ । अथवा कृत्स्नानामायव्ययप्रदेशोऽवशिष्ट- मात्रगणनायुक्तोऽर्धमुष्टिः । कृत्स्ना
बा
नान्तरस्थलविषय आयादिचतुर्विधगणनायुक्तो मुष्टिः । शृण्वत एवास्य । षष्ठी-
पाठा?-

 
[^
]G.'च'.
[^
]G.'विवादधनाः'.
[^
]G.'मध्यस्थायिनः'.