This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका - भूषणा- लघुदीपिकासहितम् ।
 
क्षालिते मुखे मुष्टिमर्धमुष्टिं वाभ्यन्तरीकृत्य कृत्स्नमायव्ययजातमहः
प्रथमेऽष्टमे वा भागे श्रोतव्यम् । शृण्वत एवास्य द्विगुणमपह-
रन्ति तेऽध्यक्षपूर्ताश्चत्वारिंशतं चाणक्योपदिष्टानाहरणोपायान्स-
हस्रधात्मबुद्ध्यैव ते विकल्पयितारः । द्वितीयेऽन्योन्यं विवदमा-
नानां प्रजानामाक्रोशाह्यमानकर्ण: कष्टं जीवति । तत्रापि प्रादि-
वाकादयः स्वेच्छया जयपराजयौ विदेधानाः, पापेनाकीय
च भर्तारमात्मानं चार्थैर्योजयन्ति । तृतीये स्नातुं भोक्तुं च लभते ।
भुक्तस्य यावदन्धःपरिणामस्तावदस्य विपभयं न शाम्यत्येव ।
चतुर्थे हिरण्यप्रतिग्रहाय हस्तं प्रसारयन्नेवोत्तिष्ठति । पञ्चमे मन्त्र-
चिन्तया महान्तमायासमनुभवति । तत्रापि मत्रिणो मध्यस्था
इवान्योन्यं मिथः संभूय, दोषगुणौ दूतचारवाक्यानि शक्या-
शक्यतां देशकालकार्यावस्थाच स्वेच्छया विपरिवर्तयन्तः, स्वपर-
मित्रमण्डलान्युपजीवन्ति । बाह्याभ्यन्तरांञ्च कोपान्गूढमुत्पाद्य
प्रकाशं प्रशमयन्त इव स्वामिनमवशमवगृह्णन्ति । षष्ठे स्वैर-
२५९
 
-
 
पदचन्द्रिका ।
 
नो मानः प्रस्थादिभिः कृतः' इति वैजयन्ती । मुष्ट्यर्धमुष्टी परिमाणविशेषौ ।
आक्रोशात् । 'यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् । तत्र लाक्षारणा यः
स्यादाक्रोशो मैथुनं प्रति' इत्यमरः । ते प्राविाकाः । अन्धःपरिणाम ओदन-
परिपाकः । महान्तमायासं क्लेशम् । संभूय मिलिला । दूताः सेवकाः । चारा
गूढदूताः । स्वपरमित्राणां मण्डलम् । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकं संबध्यते ।
स्वमण्डलं परमण्डलं मित्रमण्डलं वेति व्याख्या । प्रशमयन्तः शान्ति प्रापयन्तः ।
 
भूषणा ।
 
'तुलावच्छेद उन्मानो मानः प्रस्थादिभिः कृतः' इति वैजयन्ती । मुष्टिमर्धमुष्टिं चेति
उभौ परिमाणविशेषौ । 'शुक्तिभ्यां च पलं ज्ञेयं मुष्टिरष्टमिका तथा'। जनपदायव्यय-
शोधको मुष्टिः । ग्रामस्य शोधकोऽर्धमुष्टिः । शृण्वत एव । अनादरे षष्ठी । मध्यस्था-
यिनः भाषया 'वकील' पदवाच्याः । दूतचारवाक्यानि । अशक्यतां चेत्यर्थः । स्वप
रेति । स्वस्य परस्य शत्रोश्च मित्रमण्डलान्यप्युपजीवन्त्याश्रयन्ते तेभ्योऽपि गृह्णन्ति
लघुदीपिका ।
 
प्रस्थादिभिः कृतः' इति वैजयन्ती । मुष्टिमर्धमुष्टिं चेति मुध्यर्घमुष्टी परिमाण-
विशेषौ । अथवा कृत्स्नानामायव्ययप्रदेशोऽवशिष्टमात्रगणनायुक्तोऽर्धमुष्टिः । कृत्स्ना
बान्तरस्थलविषय आयादिचतुर्विधगणनायुक्तो मुष्टिः । शृण्वत एवास्य । षष्ठी-
पाठा?-१ 'च'. २ 'विवादधनाः'. ३ 'मध्यस्थायिनः'.